SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ORGANASANSAR यावज्जीवा तया, त्रिविधमिति तिम्रो विधा यस्य सावद्ययोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म सम्पद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं मनोवाक्कायव्यापारलक्षणं कायवाङ्मनःकर्म योग' (तत्त्वा अ. ६ सू १) इति वचनात्, 'त्रिविधेने ति करणे तृतीया, मनसा वाचा कायेन, तत्र 'बुधी मनी ज्ञाने' मननं मन्यते वाऽनेनेति मनः, औणादिकोऽस्प्रत्ययः, तच्चतुर्की, नामस्थापनाद्रव्यभावभेदात्, नामस्थापने सुगमे, द्रव्यमनो ज्ञशरीरभव्यशरीरव्यतिरिक्तं तद्योग्यपुद्गलमयं, भावमनो मंता जीव एव, 'वच परिभाषणे वचनं उच्यते इति वाक्, सापि चतुर्विधा नामस्थापनाद्रव्यभावभेदात् , तत्र नामस्थापने सुगमे, द्रव्यवाक् ज्ञशरीरभव्यशरीरव्यतिरिक्ता शब्दपरिणामयोग्याः जीवपरिगृहीताः १ भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, तथा 'चिञ् चयने चयनं चीयते वा कायः 'चित्युपसमाधानावस-8 थदेहे कश्चादि' रिति घञ् , चकारात् ककारः, पुद्गगलानां चयात् पुद्गलानामेवावयवरूपतया समाधानात् जीवस्य निवासात् प्रतिक्षणं केषाश्चित्पुद्गलानां क्षरणात् कायः-शरीरं, सोऽपि नामस्थापनाद्रव्यभावभेदाच्चतुर्धा, तत्र नामस्थापने प्रतीते, द्रव्यकायो ज्ञशरीरभव्यशरीरव्यतिरिक्त शरीरत्वयोग्या अगृहीतास्तत्स्वामिना वा जीवेन मुक्ता यावत् तं परिणाम न मुञ्चति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसंयुक्ताश्च पुद्गलाः, अनेन त्रिविधेन करणेन त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-न अनुमन्येऽहमिति, तस्येत्यधिकृतस्य सावद्ययोगस्य (भयान्त इति पूर्ववत् ) प्रतिक्रमामि-निवर्ते निन्दामि-जुगुप्से, गहें इति स एवार्थः, किन्तु आत्मसाक्षिकी निन्दा गुरुसाक्षिकी गहेंति, किं जुगुप्से इत्यत आह-आत्मानम्-अतीतसावद्ययोगकारिणं, व्युत्सृजामि-वि Jain Education 19 For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy