________________
श्रीआव. मलयगि वृत्तौ सूत्रस्पर्शिका
सामायिक सर्व सावयं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि सामायिक कुर्वन्तमपि अन्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानमुत्सृजामीति पदानि । अधुना पदार्थ, व्याख्या सच चतर्विधः तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तिविषयश्च, तत्र कारकविषयो यथा पचतीति पाचकः, समासविषयो यथा राज्ञः पुरुषः राजपुरुषः, तद्धितविषयो यथा वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयो यथात भ्रमति च रौति च भ्रमरः, अत्रापि 'डुकुञ् करणे' इत्यस्य मिप्रत्ययान्तस्य 'कृतनादेरु' रिति उकारे गुणे च कृते करो-IN मीति भवति, अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वो वक्तव्यः, इह तु ग्रन्थगौरवभयानोच्यते, भयं-प्रतीतं वक्ष्यामश्चोपरिष्टाद, अन्तो-विनाशः, भयस्यान्तो भयान्तः, अयमेव पदविग्रहः, पदपृथकरणं पदविग्रहः, तस्य सम्बोधनं भयं|न्तेति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं, सहावद्येन यस्य येन वा स सावद्यः तं, सपापमित्यर्थः, योगो-ब्यापारस्तं, प्रत्याख्यामि, प्रतिशब्दः प्रतिषेधे, आङ् आभिमुख्ये, ख्या प्रकथने, ततः प्रत्याख्यामीति किमुक्तं भवति ?,-सावद्ययोगस्य प्रतीपमभिमुखं ख्यापनं करोमि इति, अथवा पच्चक्खामीति प्रत्याचक्षे इति शब्दसंस्कारः, 'चक्ष व्यक्तायां वाचि' अस्य प्रत्यापूर्वस्य प्रयोगः,प्रत्याचक्षे इति कोऽर्थः?-प्रतिषेधस्यादरेणाभिधानं करोमि, यावज्जीवयेत्यत्र यावच्छब्दः परिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावन्मम जीवनपरिमाणं तावत्प्रत्यारव्यामीति,मर्यादायां यावज्जी- ॥५५६॥ वनमिति मरणं मर्यादीकृत्य आरात्, न मरणकालमात्र एवेति, अवधारणे यावत् जीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते, तया, अथवा प्रत्याख्यानक्रिया परिगृह्यते, यावज्जीवो यस्यां सा5
NERSAGAR
SARKARTA
Jain Education
a
l
For Private 3 Personal Use Only
Antjagelibrary.org