________________
PRESSOSSESSES
कयपंचनमोकारो करेइ सामाइयंति सोऽभिहितो। सामाइयंगमेव य ज सो सेसं अतो वोच्छं ॥१०२७॥
कृतः पञ्चनमस्कारो येन स तथाविधः, शिष्यः सामायिकं करोतीत्यागमः, स च पश्चनमस्कारोऽभिहितो यस्मादसौर नमस्कारः सामायिकाङ्गमेव, सा च सामायिकाङ्गता प्रागेवोक्ता, अत ऊर्ध्व शेष सूत्रं वक्ष्ये ॥ तच्चेदंकरेमि भंते! सामाइयं सवं सावजं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥१॥ (सूत्रं) .
इदं च सूत्रं सूत्रानुगम एव प्राप्तावसरेऽहीनाक्षरादिगुणोपेतमुच्चारणीयम् , तद्यथा-अहीनाक्षरमनत्यक्षरं अव्याविद्धाक्षरमस्खलितममिलितमव्यत्याडितं प्रतिपूर्ण प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगत'मिति, अमूनि च पदानि प्रार व्याख्यातत्वात् न व्याख्यायन्ते, एवंरूपे च सूत्रे उच्चरिते सति केषाश्चिद्भगवतां साधूनां केचन अर्थाधिकारा अधिगता | भवंति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तते, तल्लक्षणं चेदम्-संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तंत्रस्य षड्विधा ॥१॥ अस्खलितपदोच्चारणं संहिता, अथवा परः सन्निकर्षः। संहिता, यथा-करेमि भंते ! सामाइयमित्यादि, जाव वोसिरामित्ति, पदं च पञ्चधा, तद्यथा-नामिक नैपातिक औपसर्गिक|माख्यातिकं मिश्रं च, तत्र अश्व इति नामिकं, खल्विति नैपातिक, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति । 5 मिनं, अथवा द्विविधं पदं-स्याद्यन्तं पदं तिबाद्यंतं च, अत्र पञ्चविधानि द्विविधानि वा पदानि, तद्यथा-करोमि भयान्त !
Jain Education
na
For Private & Personel Use Only
K
ainelibrary.org