________________
श्रीआव श्यकमल
यगिरीय
वृत्तौ नमस्कारे
॥ ५५३ ॥
Jain Education
अरिहंतुवरसेणं सिद्धा नवंति तेण अरिहाई। न य कोइवि परिसाए पणमित्ता पणमई रण्णो ॥ १०२२ ॥ इह भगवद दुपदेशेन - आगमेन सिद्धा ज्ञायन्ते - अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः संतो यतस्तेन अर्हदादिः; पूर्वानुपूर्वी क्रम इति गम्यते, अत एव चार्हतामभ्यर्हितत्वं कृतकृत्यत्वं पुनरल्पकालव्यवहितत्वात् प्रायः समानमेव, अर्हनमस्कार्यत्वमप्यसाधनं, अर्हन्नमस्कार पूर्व कसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात्, प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तर्हि क्रमः प्राप्नोति, अर्हतामपि तदुपदेशेन संवेदनात्, उच्यते, इहार्हत्सिद्धयोरेवायं वस्तुतस्तुल्यबलयोर्विचारः श्रेयान् परमनायकभूतत्वात्, आचार्यास्तु परिषत्कल्पा वर्त्तन्ते, नापि कश्चित्परिषदं प्रणम्य-प्रणामं कृत्वा पश्चात् प्रणमति राज्ञः पदानित्यतः अचोद्यमेतत् ॥ उक्तं क्रमद्वारम् अधुना प्रयोजनफलप्रदर्शनार्थमाहइत्थ य पओअणमिणं कम्मखयो मंगलागमो चैव । इहलोअ-पारलोइअ दुबिहफलं तत्थ दिड़ंता ॥। १०२३ ॥
अत्र च - नमस्कारकरणे प्रयोजनमिदम्, यदुत करणकाल एवाक्षेपेण कर्मक्षयो-ज्ञानावरणीयादिकर्म्मापगमः अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेः, तथा मङ्गलागमश्चैव करणकालभावीति, तथा कालान्तरभावि पुनरिह| लौकिकपारलौकिकभेदभिन्नं द्विविधं द्विप्रकारं फलं, तत्र च दृष्टान्ता वक्ष्यमाणलक्षणाः ॥
इहलोऍ अत्थकामा आरोग्गं अभिरई य निष्पत्ती । सिद्धी य सग्गसुकुले पचायाई य परलोए । १०२४ ॥ इहलोके अर्थकामौ भवतः, तथा आरोग्यं नीरुजत्वं भवति, एतेऽर्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाहअभिरतिश्च भवति, आभिमुख्येन रतिरभिरतिः, इहलोके अर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वा
For Private & Personal Use Only
नमस्कारे क्रमः प्रयोजनफले च
॥ ५५३ ॥
Unelibrary.org