SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ KOGUSUGGESGLASAGASH दुपाध्यायाः सूत्रविद एव केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, न अर्हदादय इति, तत्र एकपदव्यभिचारान्न तुल्या भिधानतेति, न च साधुनमस्कारकरणेऽर्हदादिनमस्कारफलावाप्तिः, सामान्येन प्रवृत्तेः, तथा चात्र प्रयोगः-साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारवत्-मनुष्यत्वमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वा, उक्कं च-"जइवि जइग्गहणातो होइ कहवि गहणमरिहयाईणं। तहवि न तग्गुणपूया जइगुणसामन्नपूयातो ॥१॥" तस्मात् पञ्चविध एव खलुशब्दस्यावधारणार्थत्वात् नमस्कारो भवति, व्यक्त्यपेक्षया विस्तरेण कर्तुमशक्यत्वात् , तथा हेतुनिमित्तं भवति सिद्धः पञ्चविधो नमस्कारः, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः 'मग्गे अविप्पणासो' इत्यादिकः तन्निमित्तं-तस्मादुपाधिभेदात् भवति पञ्चविधः सिद्धः॥ गतं प्रसिद्धिद्वारम् , अधुना क्रमद्वारप्रतिपादनार्थमाहपुवाणुपुचि न कमो नेव य पच्छाणुपुवि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥१०२१॥ इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी पश्चानुपूर्वी च, अनानुपूर्वी तुक्रम एव न भवति, असमञ्जसत्वात् , तत्रायमईदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानात् , एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धा एव हि प्रधान, प्रधानस्य चाभ्यर्हितत्वेन पूर्वमभिधानमिति भावार्थः, तथा नैव च पश्चानुपूर्वी एष क्रमो भवेत् , साध्वाद्यनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् स्यात् तदा पश्चानुपूर्वीति, तथा चामुमेवार्थ प्रतिपादयति-सिद्धादिका प्रथमा पूर्वानुपूर्वी, भावना प्रतिपादितैव, द्वितीयायां तु-पश्चानुपूर्ध्या साधव आदौ, युक्तिरत्रापि प्रागभिहितव, अत्र प्रतिविधीयते-पूर्वानुपूर्येव एष क्रमः, तथा च पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाह Artrotonnor Jain Education ES For Private & Personel Use Only ( A ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy