________________
सिद्धसौख्यं
श्रीआवश्यकमलयगिरीयवृत्तौ नम
स्कारे
वारसंगो जिणक्खातो अज्झातो देसितो (कहितो हा०) बुहेहिं । तं उवासंति जम्हा उवझाया तेण बुच्चंति १००१
द्वादशाङ्ग:-आचारादिः, द्वादशाङ्गसद्भावात् , जिनाख्यातः-अर्हत्प्रणीतः अध्यायो, वाचनादिनिबन्धनत्वादिह सूत्र| मेव गृह्यते, कथितो बुधैः-गणधरादिभिः, य इति गम्यते, तं स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात्कारणात्ते नो यन्ते। | उपाध्यायाः, उपेत्याधीयते यस्मादित्यन्वर्थोपपत्तेः॥ साम्प्रतमागमशैल्या अक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाह| उत्ति उवयोगकरणे झत्ति य झाणस्स होइ निद्देसे । एएण होइ उज्झा एसो अन्नोऽवि पजातो॥१००२॥
उ इत्येतदक्षरं उपयोगकरणे वर्तते, झ इति चेदं ध्यानस्य निर्देशे भवति, ततः प्राकृतशैल्या एतेन कारणेन भवंति उज्झा, उपयोगपुरस्सरं ध्यानकार इत्यर्थः, एषोऽन्योऽपि पर्यायः ॥ अथवाउत्ति उवयोगकरणे वत्ति य पावपरिवजणे होइ। झत्ति य झाणस्स कए उत्तिय ओसक्कणा कम्मे ॥१००३॥
उ इत्येतदक्षरं उपयोगकरणे वर्त्तते, व इति पापस्य परिवर्जने भवति, झ इति ध्यानस्य कृते-करणे निर्दिश्यते, उ इति अवष्वष्कणा कर्मणीत्येतस्मिन्नर्थे, एषोऽत्र समुदायार्थः-उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्मापनयन्तीत्युपाध्याया इति । अक्षरार्थाभावे हि पदार्थाभावः, पदस्य तत्समुदायरूपत्वादित्यक्षरार्थः प्रतिपत्तव्य इति ॥
उवज्झायनमोकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१००४॥ उवज्झायनमोकारो धन्नाण भवक्खयं करताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥१००५॥ उवज्झायनमोकारो एवं खलु वनिओ महत्थोत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ॥१००६॥
SAARASSACHARIRI
॥५५॥
Jain Education
a
l
For Private & Personel Use Only
M
e
library.org