________________
Jain Education
उवज्झायनमोकारो, सङ्घपावप्पणासणो । मंगलाणं च सबेसिं, चउत्थं हवइ मंगलं ॥ १००७॥ गाथाचतुष्टयमपि सामान्येनार्हन्नमस्कारवदवसेयम्, विशेषस्तु सुगम एव, इत्युक्त उपाध्यायनमस्काराधिकारः । अथ साधुरिति कः शब्दार्थः ?, उच्यते-अभिलषितमर्थं साधयतीति साधुः, "कृवापाजी' त्यादिना उण्प्रत्ययः, सच नामादिभेदाच्चतुष्प्रकारः, तथा चाह
नामंटवणासाहू दवसाहू य भावसाहू य । दव्वंमि लोइयादी भावंभि य संजतो साहू ॥ १००८ ॥ नामसाधुः स्थापनासाधुः द्रव्यसाधुर्भावसाधुश्च तत्र नामस्थापनासाधू सुगमौ, द्रव्यसाधुज्ञेशरीर भव्यशरीरव्यतिरिक्तः लौकिकादिस्त्रिविधः, तद्यथा - लौकिको लोकोत्तरः कुप्रावचनिकश्च तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको वा स लौकिकः, कुप्रवचनेषु निजनिजसमाचारसम्यक्परिपालनरतः कुप्रावचनिकश्च तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको वास लौकिकः, कुप्रवचनेषु निजनिजसमाचार सम्यक्परिपालनरतः कुप्रावचनिकः, लोकोत्तरे निह्नवः, अन्यथा पदार्थप्ररूपणतस्तस्य मिथ्यादृष्टित्वात्, शिथिलवतो वा वेषमात्रधारणात् भावे विचार्यमाणे साधुः संयतः - सम्यग् जिनाज्ञापुरस्सरं सकलसावद्यव्यापारादुपरतः ॥ सम्प्रति लौकिकादिद्रव्य साधुप्रतिपादनार्थमाह
घडपडरहमाईणि सार्हेता होंति दबसाहू य । अह्वावि दवभूया ते होंती दबसाहुत्ति ॥ १००९ ॥ घटपटरथादीनि, आदिशब्दात् गृहदेवकुलादीनां कुप्रवचने निजनिजसमाचाराणां च परिग्रहः, तान् साधयन्तो भवंति द्रव्यसाधवः, अभिलषितमर्थं साधयन्तीति साधवः इत्यन्वर्थघटनात्, मोक्षाङ्गताविरहतश्च द्रव्यरूपत्वात्, तत्र घटपटादि
For Private & Personal Use Only
Inelibrary.org