________________
निस्तीर्णम्-अतिक्रान्तं सर्वम्-अशेषं दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, जातिः-जन्म जरा-वयोहानिः मरणं-प्राणत्यागः | बन्धनं-संसारबन्धहेतुरष्टप्रकारं कर्म तैर्विमुक्ताः, अव्याबाधं-व्याबाधारहितं सौख्यं सदाकालमनुभवन्ति ॥ उक्ताः सिद्धाः, सम्प्रति तन्नमस्कारवक्तव्यतामाह
सिद्धाण नमकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥९८९॥ सिद्धाण नमोकारो धन्नाण भवक्खयं करेंताण । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥ ९९०॥ सिद्धाण नमोकारो एवं खलु वनितो महत्थोत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो॥९९१ ॥
सिद्धाण नमोकारो, सवपावप्पणासणो । मंगलाणं च सव्वेसिं, बीयं हवइ मंगलं ॥ ९९२ ॥ गाथाचतुष्टयमपि अर्हन्नमस्कारवद्वेदितव्यम् ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारावसरः,IN | अथ आचार्य इति कः शब्दार्थः ?, उच्यते, 'चर गतिभक्षणयोः' आयूर्वः, आचर्यते कार्यार्थिभिः सेव्यते इति आचार्यः,13
"ऋवर्णव्यञ्जनान्ताद् ध्यणि"ति ध्यण् , अयं च नामादिभेदाच्चतुष्प्रकारः, तथा चाहI नामंठवणादविए भावंमि चउबिहो उ आयरियो । दव्वमि एगभवियाइ लोइए सिप्पसत्थाइ ॥ ९९३ ॥ ।
नामाचार्यः स्थापनाचार्यः द्रव्याचार्यः भावाचार्यश्च, तत्र नामस्थापनाचार्यों सुगमौ, द्रव्याचार्य आगमनोआगमादि|भेदं प्रायः सर्वत्र तुल्यविचारत्वात् अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्याचार्यमभिधातुकाम आह-'दव्वंमि' इत्यादि, द्रव्ये-द्रव्याचार्ये विचार्यमाणेऽनेकभेदाः, तद्यथा-एकभविको बद्धायुरभिमुखनामगोत्रश्च, तत्र एकेन भवेन भावी
शब्दार्थः ?, उच्याव्यम् ॥ उक्तः सिद्धनमालवेर्सि, वीयं हवा में
Jain Educatio
n
For Private & Personel Use Only
Mainelibrary.org