________________
श्रीभवश्यकमलयगिरीय
वृत्तौ नमस्कारे
॥ ५४८ ॥
Jain Education
नरः । सर्वेन्द्रियार्थ संप्राप्त्या, सर्वाबाधानिवृत्तिजम् ॥ ६ ॥ यद्वेदयति संहृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनंतं, सुखमाहुर्मनीषिणः ॥ ७ ॥ इति ॥
इय सबकालतित्ता अउलं निवाणमुवगया सिद्धा । सासयमवाबाहं चिठ्ठति सुही सुहं पत्ता ॥ ९८६ ॥ इति- एवमुक्तेन प्रकारेण सर्वकालतृप्ताः, स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः शाश्वतं सर्वकालभावि, अव्याबाधं- व्याबाधपरिवर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्ति । अथ सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकं नैष दोषः अस्य दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव सुखप्रतिपादनार्थत्वात्, तथा हि अशेषदोषक्षयतः शाश्वतमन्याबाधं सुखं प्राप्ताः सन्तः सुखिनस्तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥ सांप्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयति
सिद्धत्ति अबुद्धत्तिय पारगयत्ति य परंपरगयत्ति य । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ ९८७ ॥
सिद्धा इति कृतकृत्यत्वात्, बुद्धा इति केवलज्ञानदर्शनाभ्यां विश्वावगमात् पारगता इति भवार्णवपारगमनात्, परंपरागता इति पुण्यवीजसम्यक्त्वज्ञान चरणक्रमतत्प्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागताः उन्मुक्तकर्म| कवचाः सकलकर्म्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलक्लेशाभावात् ॥ साम्प्रतमुपसंहरति
निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहवयंती सया कालं ॥ ९८८ ॥
For Private & Personal Use Only
सिद्धसौख्यं
।। ५४८ ॥
kinelibrary.org