SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ -RRRRRRRRRRRRRE आह-किमेते युगपज्जानन्ति पश्यन्ति च आहोस्विदयुगपदिति, उच्यते, अयुगपत् , कथमेतदवसीयते इति चेत्, यत आहनाणंमि दंसणंमि य एत्तो एगयरयंमि उवउत्ता। सबस्स केवलिस्सा जुगवं दो नत्थि उवओगा॥ ९७९॥ ज्ञाने दर्शने च एत्तो' त्ति अनयोः एकतरस्मिन् उपयुक्ताः, 'कि' मिति !, यतः सर्वस्य केवलिनः सतो युगपद्-एकस्मिन् काले द्वौ न स्त उपयोगौ, तत्स्वाभाव्यात् , क्षायोपशमिकसंवेदने तथादर्शनात् , अत्र बहु वक्तव्यं तच्च नंद्यध्ययनटीकातोऽवसेयमिति ॥ सांप्रतं निरुपमसुखभाजस्ते इत्युपदर्शयन्नाह नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं । जं सिद्धाणं सोक्खं अवाबाहं उवगयाणं ॥ ९८०॥ नैवास्ति मानुषाणां-चक्रवर्त्यादीनामपि तत् सौख्यं, न चैव देवानामनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सौख्यं अव्याबाधमुपगतानां-विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तां उप-सामीप्येन गताना-प्राप्तानां ॥ यथा। नास्ति तथा भङ्गयोपदर्शयति सुरगणसुहं समत्तं सबद्धवापिंडियं अणंतगुणं । नय पावइ मुत्तिसुहं ताहिवि वग्गवग्गूहिं ॥९८१॥ सुरगणसुखं समस्तं-समस्तदेवसंघातसुखं समस्तं-संपूर्ण, अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिंडितं' सर्वकालसमयैगुणितं, ततः पुनरप्यनंतगुणम् , किमुक्तं भवति?-सर्वाद्धासमयगुणितं सत् यावत्प्रमाणं भवति तावत्प्रमाणं किलासत्कल्पनया एकैकस्मिन्नाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकाकाशानन्तप्रदेशपूरणलक्षणेनानन्तगुणकारेण गुणि आ. सू. ९२ Jain Education Minal For Private & Personal Use Only anbrary
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy