________________
श्री आवश्यकमलयगिरीयवृत्तौ नमस्कारे
॥ ५४६ ॥
Jain Education
शात्मकै कसिद्धावगाहक्षेत्रे प्रतिप्रदेश परिवृद्धिहानिभ्यां प्रतिप्रदेशमनन्तानां सिद्धानामवगाहनात् ॥ स्थापना चेयम् । उक्तं च - "एकवखेत्तेऽणंता पएसपरिवडिहाणिए तत्तो । होंति असंखेज्जगुणाऽसंखपएसो जमवगाहो ॥ १ ॥” सांप्रतं सिद्वानेव लक्षणतः प्रतिपादयति
असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ ९७७ ॥ अविद्यमानशरीराः अशरीराः, औदारिका दिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च शुषिरापूरणात् जीवधनाः, उपयुक्ता दर्शने च केवलदर्शने ज्ञाने च केवलज्ञाने । इह सामान्यसिद्धलक्षणमेतदितिज्ञापनार्थं सामान्यालंबनदर्शनाभिधानमादायुक्तम्, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानं, तत् साकाराना कारं - सामान्यविशेषरूपं लक्षणं तदन्यव्यावृत्तं स्वस्वरूपम् एतद्-अनन्तरोक्तम्, तुशब्दो निरुपमसुखसंचयार्थः, सिद्धानां - निष्ठितार्थानामिति ॥ संप्रति केवलज्ञानदर्शनथोर शेष विषयतामुपदर्शयति
केवलनाणुवत्ता जाणंती सवभावगुणभावे । पासंति सबतो खलु केवलदिद्वीहिं णंताहिं ॥ ९७८ ॥ केवलज्ञानेोपयुक्ताः, न त्वन्तःकरणेन तदभावात्, केवलज्ञानोपयुक्ताः जानन्ति - अवगच्छन्ति - सर्वभावगुणभावान् सर्व पदार्थ गुणपर्यायान् प्रथमो भावशब्दः पदार्थवचनः, द्वितीयः पर्यायवचनः, गुणपर्यायभेदस्त्वयं सहवर्तिनो गुणाः, क्रमवर्तिनः पर्यायाः, तथा पश्यन्ति सर्वतः खलु, खलुशब्दस्यावधारणार्थत्वात् सर्वत एव केवलदृष्टिभिरनन्ताभिःकेवलदर्शनैरनन्तैः, अनन्तत्वात् सिद्धानाम्, इादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थम् ।
For Private & Personal Use Only
सिद्धानां स्थानं
॥५४६ ॥
ainelibrary.org