________________
ANE
OCTOMORRORSCORK
-
हिमं गोक्षीरहारौ प्रतीतो, तैः सदृक्-तुल्यो वर्णो यस्याः सा तुषारगोक्षीरहारसदृग्वर्णा, वर्ण उपदर्शितः, संस्थानमपदर्शयति-उत्तानच्छत्रवत् संस्थिता उत्तानच्छत्रसंस्थिता जिनवरैर्भणिता ॥ सम्प्रति परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणमिधित्सुराह
एगा जोयणकोडी बायालीसं च सयसहस्साइं। तीसं चेव सहस्सा दो चेव सया अउणवन्ना ॥ ९६२॥
इह ईषत्प्रारभाराया गणनया आयामविष्कम्भाभ्यां पञ्चचत्वारिंशद् योजनलक्षाणि प्रमाणम् , अतो 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरयो होइ' इति परिधिगणितेन परिधिपरिमाणमेका योजनानां कोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे शते एकोनपञ्चाशदधिके १४२३०२४९, शेषं त्वधिकमल्पत्वान्न विवक्षितं, प्रज्ञापनातो वाऽवसेयमिति ॥ साम्प्रतं अस्या एव बाहल्यं प्रतिपादयति
बहमज्झदेसभाए अहेव य जोयणाई बाहल्लं । चरिमंतेसु अतणुई अंगुलसंखिजईभागं ॥९६३ ॥ मध्यदेशभाग एव बहुमध्यदेशभागो, बहुशब्दस्य स्तोकपरिहारार्थमात्रत्वात् , स च बहुमध्यदेशभाग आयामविष्कम्भाभ्यामष्टयोजनप्रमाणः, तत्र बाहल्यं-उच्चस्त्वमष्टैव योजनानि, ततो यथोक्तप्रमाणात् बहुमध्यदेशभागात् बाहल्यमपेक्ष्य मात्रया तन्वी भवन्ती चरमान्तेषु-पश्चिमान्तेषु अङ्गुलसङ्ख्येयभागं यावद्-अङ्गलसङ्ख्येयभागमात्रा तन्वी । सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयतिगंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहत्तं । तीसेवि अ पेरंते मच्छिअपत्ताउ तणुअयरा ॥ ९६४ ॥
वरमान्तेषु-पानलमदेव योजनाकपरिहारार्थमावणई अंगुलसखि
Jain Education
For Private & Personel Use Only
ainelibrary.org