SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलयगिरीय वृत्तौ नमस्कारे ॥ ५४० ॥ Jain Education अन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्ममनोयोगमन्तर्मुहूर्त्तमात्रेण निरुणद्धि, ततः पुनरप्यन्तर्मुहूर्त्तमास्ते, ततः सूक्ष्मकाययोगवलात् सूक्ष्मकाययोगमन्तर्मुहूर्त्तेन निरुणद्धि, तं च निरुन्धानः सूक्ष्मक्रियमप्रतिपाति ध्यानमारोहति, तत्सामर्थ्याद्वदनोदरादिविवर पूरणेन सङ्कुचितदेहत्रिभागवर्त्तिप्रदेशो भवति, आह च - "सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसौ । भवति ततोऽसौ सूक्ष्मक्रियस्तदा किहिगतयोगः ॥ १ ॥ तमपि स योगं सूक्ष्मं निरुरुत्सन् सर्वपर्ययानुगतम् । सूक्ष्मक्रियमप्रतिपात्युपयाति ध्यानमतमस्क ॥ २ ॥” मित्यादि, सूक्ष्मकाययोगं च निरुन्धानः प्रथमसमये किट्टीनामसङ्ख्येयान् भागान् नाशयति, एकस्तिष्ठति, द्वितीयसमये तस्यैव चैकस्य भागस्योद्धरितस्य सम्बन्धिनोऽसङ्ख्येयान् भागान् नाशयति, एक उद्धरति, एवं समये समये किट्टीस्तावन्नाशयति यावत्सयोग्यवस्थाचरमसमयः तस्मिंश्च चरमसमये सर्वाण्यपि कर्माण्ययोग्यवस्थासमस्थितिकानि जातानि येषां च कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थितिं स्वरूपं प्रतीत्य समयोनां विधत्ते सामान्यतः, सत्ताकालं प्रतीत्य पुनरयोग्यवस्थासमामिति, तस्मिंश्चायोग्यवस्थाचरमसमये सूक्ष्मक्रियाऽप्रतिपाति ध्यानं १ सर्वाकृष्टयः २ सद्वेद्यस्य बन्धो ३ नामगोत्रयोरुदीरणा ४ योगः ५ शुक्ललेश्या ६ स्थित्यनुभागघातश्चे ७ ति सप्त पदार्था युगपद् व्यवच्छिद्यन्ते, ततोऽनन्तरसमये शैलेशीं प्रतिपद्यते, सर्वसंवरं शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्था शैलेशी, इयं च मध्यमप्रतिपत्त्या ह्रस्वपञ्चाक्षरोहिरणमात्रं कालं भवोपग्राहिकर्म्मक्षपणाय व्युपरतक्रियमप्रतिपाति ध्यानमारोहति - "आह ततो देहत्रयमोक्षार्थमनिवर्त्ति सर्ववस्तुगतम् । उपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानम् ॥ १ ॥” एवं भवोपग्राहिकर्मजालं क्षपयित्वा कर्म विमोक्षसमये यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत्प्रदेशान् ऊर्ध्व - onal For Private & Personal Use Only समुद्घातः ॥५४० ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy