________________
वृद्धिं च्यावयित्वा अनन्तगुणहान्यैकैकवर्गणास्थापनेन योगस्याल्पीकरणं, तत्र पूर्वस्पर्द्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसङ्ख्येयान् भागानाकर्षति, एकमसङ्खयेयभागं स्थापयति, जीवप्रदेशानामपि चैकमसङ्खयेयभागमाकर्षति, शेषं सर्व स्थापयति, एष किट्टीकरणप्रथमसमयव्यापारः, ततो द्वितीयसमये प्रथमसमयाकृष्टवीर्याविभागपरिच्छेदभागादसङ्ख्येयगुणवीर्याविभागपरिच्छेदानां भागमाकर्षति, जीवप्रदेशानां पुनः प्रथमसमया
कृष्टजीवप्रदेशासङ्खयेभागादसयेयगुणं भाग, तावतोऽसङ्ख्येयान् भागानाकर्षतीत्यर्थः, एवं तावत् किट्टीः करोति यावहादप्यन्तर्मुहूर्तचरमसमयः, तत्र प्रथमसमयकृताभ्यः किट्टीभ्यो द्वितीयसमयकृताः किट्टयोऽसङ्ख्येयगुणहीनाः, गुणकारश्च
पल्योपमासमयेयभागः, एवं शेषेष्वपि भावनीयम् , तथा चोक्तं कर्मप्रकृतिप्राभृते-' 'एत्थं अंतोमुहत्तं किट्टीतो
करेइ, असंखेजगुणहीणाए सेढीए, जीवपएसे य असंखेजगुणाए सेढीए पकड्डइ, किट्टीगुणकारो पलिओवमस्स द्र असंखेज्जइभागो' त्ति, प्रथमसमयकृताश्च किट्टयः श्रेण्यसङ्ख्येयभागप्रमाणाः, एवं द्वितीयादिसमयेष्वपि प्रत्येकमवग-18 न्तव्याः, सर्वा अपि च कियः श्रेण्यसङ्ख्येयभागप्रमाणाः पूर्वस्पर्द्धकानां च सङ्खयेयभागमात्राः, किट्टीकरणावसानानन्तरसमये एव च पूर्वस्पर्द्धकान्यपूर्वस्पर्द्धकानि च सामस्त्येन नाशयन्ति, तत्समयादारभ्य अन्तर्मुहर्त यावत् किहिगतयोगो भवति, तथा चोक्तम्-"किहिकरणे निदिए ततो सेकाले पुवफडगाणि अपुवफडुगाणि च सेसेइ, अंतोमुहुत्तं किट्टिगयजोगो भवति" त्ति, न चात्र किञ्चिदपि करोति, ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहूर्त्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि, ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहूर्तमास्ते, नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति, ततोऽन
4
-
6
Jain EducIH
For Private 3 Personal Use Only
Kaw.jainelibrary.org