SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तत्र सङ्केपतो भाष्यकार-टीकाकारादयः कृतवन्तः, विस्तरतस्तु चूर्णिकारादयः, तत्र सङ्केपत इदं-योगनिरोधं कुर्वन् प्रथममेव याऽसौ शरीरसम्बद्धा मनःपर्याप्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् , तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवान् अनुत्तरेणाचिंत्येन निरावरणेन करणवीर्येण तद्व्यापार निरुणद्धि, तच्चैवम्-'पज्ज-2 त्तमेत्तसंनिस्स जत्तियाई जहण्णजोगिस्स । होति मणोदवाई तबावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए समए निरुंभमाणो सो । मणसो सबनिरोह करेज संखेजसमएहिं ॥२॥' वाग्योगकाययोगनिरोधमप्येवम्-"पजत्तमेत्तदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥१॥ सबवइजोगरोह संखातीतेहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववन्नस्स ॥२॥ जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्कक्के । समए निलंभमाणो देहतिभागं च मुंचंतो॥३॥ रंभइ स कायजोगं संखातीतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेति ॥ ४॥" विस्तरस्त्वेवम्-योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबलादन्तर्मुहूर्त्तमात्रेण बादरवाग्योगं निरुणद्धि, क्रमेणेति शेषः, 'आलम्बनाय करणं तदिष्यते तत्र वीर्यवतः', अत्र तदिति बादरतनुरूपं, बादरमनोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहूर्त्त स्थित्वा तत उच्छ्वासनिश्वासावन्तर्मुहूर्त्तमात्रेण निरुणद्धि, ततः पुनरप्यन्तर्मुहूर्त स्थित्वा सूक्ष्मकाययोगबलाद्वादरकाययोगं निरुणद्धि, बादरयोगे हि सति सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् , आह च-“बादरतनुमपि निरुणद्धि ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहुः-बादरकाययोगवलाद् बादरकाययोगं निरुणद्धि, युक्तिं चात्र वदन्ति, यथा कारपत्रिका स्तम्भे स्थितस्तमेव स्तम्भं छिनत्ति, तथा बादरकाय-8 Jain Education Ha na For Private & Personel Use Only Mainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy