________________
स्थितिकमायुपः सकाशारणामा यनास्यायुर्वेदुनीयादि सप्तापि सर्वदेव बन
द नियमो येन तदेव बहुस्थितिकमायुषः सकाशात् भवति ?, न च जातुचिदपि आयुरिति, उच्यते, तथारूपजीवपरिणामस्वाभाव्यात् , तथाहि-इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादिसमं भवति न्यून वा, न कदाचनाप्यधिकं, यथा| तस्यैवायुषः खल्वध्रुवबन्धः, तथाहि-ज्ञानावरणादीनि कर्माण्यायुर्वर्जानि सप्तापि सर्वदैव बन्नाति, आयुस्तु प्रतिनियत एव काले स्वभवत्रिभागादिशेषरूपे, तत्रैव बन्धवैचित्र्यनियमे न स्वभावाद् यतः परः कश्चिदस्ति हेतुः, एवमिहापि स्वभावविशेष एव नियामको द्रष्टव्यः, आह च भाष्यकृत्-“असमद्वितीण नियमो को थेवं आउयं न सेसंपि। परिणामसहावातो अद्धयवंधो व तस्सेव ॥१॥" येषां पुनर्भगवतां वेदनीयादिकमायुषा सह स्वभावत एव समस्थितिकमुपजातं ते समुद्घातं न प्रतिपद्यन्ते, तथा चाह भगवानार्यश्यामः-"अगंतूण समुग्घायमणंता केवली जिणा । जाइमरणविप्पमुक्का, सिद्धिं वरगति गया ॥ १॥" ननु प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थ समुद्घातारम्भः, एतच्चायुक्तं, कृतनाशादिदोषप्रसङ्गात्, तथाहि-प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्पादनात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्विनाशसम्भवात् मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि-इह यथा प्रतिदिवसं सेतिकापरिभोग्येन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यतः स्तोकदिवसैनिःशेषतः परि| भोगान्न कृतनाशोपगमः, तथा कर्मणोऽपि वेदनीयादेस्तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधो हि कर्मणोऽनुभवः-प्रदेशतो विपाकतश्च, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किञ्चित्कर्म यत्प्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कुतः कृतनाशदोषापत्तिः ?, विपाकतस्तु किञ्चिन्न, अन्यथा
Jain Education
For Private & Personel Use Only
Wiainelibrary.org