________________
श्रीआव श्यकमलयगिरीय
वृत्तौ नमस्कारे
॥ ५३५ ॥
Jain Education
| टीकादाविति ततः परिभावनीयम्, प्रदीपदृष्टान्तोऽध्यसिद्धो, यतः प्रदीपपुद्गला एव भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण ॥ अथवा अन्यथा व्याख्यायते 'दीर्घकालरज' इति, रज इति रजः सूक्ष्मतया, स्नेहबन्धनयोग्यत्वाद्वा इत्यर्थः, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात् प्रकरणादेव भव्यस्याप्यवगम्यमानत्वात् अभव्यस्य सिद्धत्वायोगात्, ततो जन्तुकर्मेति व्याख्येयम्, जन्तुः - जीवस्तस्य कर्म्म, जन्तुग्रहणेनाबद्ध कर्म्मव्यवच्छेदमाह, 'से' तस्य जन्तोरसितं - कृष्णमशुभं संसारानुबन्धित्वात् एवंविधस्यैव क्षयः श्रेयान् नतु शुभस्वरूपस्येति भावना, अष्टधा सितमित्यादि पूर्ववत्, प्रथमव्याख्यापक्षमधिकृत्याह तत्कर्म्म शेषं तस्य समस्थिति वा स्यादसमस्थिति वा ? न तावत् समस्थिति, विषमनिबन्धनत्वात् नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवात् एतदयु तम् उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वेऽपि सति विचित्रः क्षयसम्भव इति कालतः समस्थितिकत्वाविरोधः, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयोच्यते, यत आह निर्युक्तिकृत्
नाऊण वेयणिज्जं अइबहुगं आउगं च थोवागं । गंतॄण समुग्धायं खवेइ कम्मं निरवसेसं ॥ ९५४ ॥ ज्ञात्वा - केवलेनावगम्य वेदनीयं कर्म्म अतिबहु-शेषभवोपग्राहि कर्म्मापेक्षयाऽतिप्रभूतं, आयुष्कं च कर्म्म तदपेक्षयैव स्तोकं, ज्ञात्वेति वर्त्तते, अत्रान्तरे गत्वा वा प्राप्य ' समुद्घातं सम्यक् - अपुनर्भावेन उत्-प्राबल्येन घातः - कर्म्मणो वेदनीयादे हननं प्रलयो यत्र प्रयत्नविशेषे स समुद्घातस्तं गत्वा क्षपयन्ति कर्म्म निरवशेषं निरवशेषमिव निरवशेषं प्रभूततमक्षपणात्, शेषस्य चान्तर्मुहूर्त्तमात्रकालावधितया किंचिच्छेषत्वेन परमार्थतोऽसत्कल्पत्वात्, आह-ज्ञात्वा वेदनीयमतिबह्रित्यत्र को
For Private & Personal Use Only
समुद्घातः
॥ ५३५ ॥
inelibrary.org