________________
₹तुशब्दो भव्यकर्मविशेषणार्थः, न खल्वभव्यकर्म सर्वथा ध्मायते, ततोऽयमर्थः-दीर्घकालरजो यत् भव्यकर्म तत् शेषितं-शे
पीकृतं, स्थित्यादिभिःप्रभूतं सत् स्थित्यनुभावसङ्ख्यापेक्षया अनाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम् , अल्पं कृतमिति भावः, प्राक् किंभूतं सत् शेषितमित्यत आह-'अष्टधा' ज्ञानावरणादिभेदेनाष्टप्रकारं सत् 'सितं' 'सित वर्णबन्धनयो रिति वचनात् 'पिञ् बन्धने' इति वचनात् वा बद्धं कर्म ध्मातं 'ध्मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन महाग्निना लोहमलवत् येन स सिद्धः, 'पृषोदरादय' इति इष्टरूपनिष्पत्तिः, एवं कर्मदहनानन्तरं सिद्धस्य सतः, किं ?-सिद्धत्वमुपजायते, नासिद्धस्य, निश्चयनयमेतत् , उक्तं च-“पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासाधुः (नासन् कश्चित् ) प्रव्रजितो, भन्योऽसिद्धो न सिद्ध्यति ॥१॥” उपजायते इत्यपि तत्त्वतस्तदात्मनः स्वाभाविकमेव सद् अनादिकावृतं तदावरणविगमेनाविर्भवति, तथापि लौकिकवाचोयुक्त्या व्यवहारदेशनया उपजायते इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, नतु प्रदीपनिर्वाणकल्पमभावरूपं, तेन यदाहुरेके-"दीपो यथा निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काश्चित् , स्नेहक्षयात् केवलमेति नाशं ॥१॥ जीवस्तथा निवृतिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काञ्चित् , केशक्षयात् केवलमेति शान्ति ॥ २॥' मिति तदपास्तं द्रष्टव्यम् , तथाविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यप्रसङ्गात्, न खलु कश्चनापि सचेतनः स्ववधाय कंठे कुठारं प्रक्षि|पतीति परिभावनीयमेतत् , न च निरन्वयविनाशो युक्तिघटामुपैति, सतः सर्वथा विनाशायोगात्, असतः खरविषाणस्येवादलस्योत्पत्त्ययोगात् 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात् , विजृम्भितं चात्रार्थे धर्मसङ्ग्रहणि
HAKACCORECARENCECRECENGAGRAM
आ.सू.९०
JainEducationDENT
For Private & Personal Use Only
Scinelibrary.org