SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कथंचनापि सीवितं यथा सर्वथा न ज्ञायते, यथा स्वामिसकं देवदृष्यं धिग्जातीयेन कारितं ८ । वड्डइत्ति वर्द्धकिरभ्या-18 सतः कोऽप्यमाप्यापि देवकुलरथादीनां प्रमाणं जानाति ९॥ पूइयत्ति आपूपिकः कणिकादिकममाप्यापि पूपपरिमाणं जानाति, यथा एतावत्कणिक्कादेरेतावत्यः पूपा भविष्यन्ति, सर्वा अपि वा समाः करोति १० । 'घडे' त्ति घटकारः प्रथमत एतावत्प्रमाणां मृत्तिकां गृह्णाति यावन्मात्रया विवक्षितं घटादिकं निष्पद्यते इति ११। चित्तकारेत्ति चित्रकारो अमाप्यापि रेखादिकं प्रमाणयुक्तं चित्रं करोति, तावन्मानं वा वर्णकं गृह्णाति यावन्मात्रेण समाप्यते इति २१ । सर्वेषामेतेषां कर्मजा| बुद्धिः । उक्ता कर्मजा बुद्धिः, सम्पति पारिणामिक्या लक्षणं प्रतिपादयन्नाहअणुमाण-हेउ-दिटुंतसाहिआ वयविवागपरिणामा । हिअनिस्सेयसफलवई बुद्धी परिणामिआ नाम ॥९४८ ॥ ___ अनुमानहेतुदृष्टान्तैः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमनुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमंतं नयतीति दृष्टान्तः, ननु अनुमानग्रहणादेव दृष्टान्तो गत इति किमर्थमस्योपन्यासः ?, तदसम्यक्, अनुमानस्य तत्त्वत एकलक्षणत्वात् , उक्तं च-'अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥१॥ इत्यादि साध्योपमाभूतस्तु दृष्टान्तः, उक्तं च-"यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते” इति, वयोविपाकपरिणामा इति कालकृतो देहावस्थाविशेषो वयः तद्विपाकेन परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम्-अभ्युदयः तत्का Jain Education a l For Private & Personel Use Only Mainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy