________________
तथाऽप्यत्रार्थादनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं द्रष्टव्यम् । आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः तत्कथमुच्यते-जीवं मोचयतीत्यादि, उच्यते, यदि तद्भव एव मोक्षाय न भवति, तथापि भावनाविशेषाद्भवति पुनर्बोधिलाभाय, बोधिलाभश्चाचिरादविकलो मोक्षहेतुरित्यतो न दोषः, तथा चाह
अरिहंतनमोकारो धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥ ९२४ ।।
धनं ज्ञानदर्शनचारित्रलक्षणं लब्धारो धन्याः-साध्वादयः तेषां भवक्षयं-तद्भवजीवितक्षपणं कुर्वतां यावज्जीवं हृदयममु|ञ्चन् विश्रोतसिकाया-विमार्गगमनस्यापध्यानस्य वारकोऽर्हन्नमस्कारो भवति, धर्मध्यानैकालम्बनतां करोतीत्यर्थः॥
अरिहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणमि उवग्गे अभिक्खणं कीरए बहुसो॥९२५॥ ___ अर्हन्नमस्कार एवम्-उक्तप्रकारेण खलु वर्णितो महार्थ इति-महान् अर्थो यस्य स महार्थः, महार्थता चास्याल्पाक्षरत्वेऽपि द्वादशाङ्गसङ्घाहित्वात् , कथं पुनरेतदेवमित्याह-यो नमस्कारो मरणे-प्राणोपरमलक्षणे उपाग्रे-समीपे भूते अभीक्ष्णम्-अनवरतं क्रियते बहुशः-अनेकशः, ततो महत्यामापदि द्वादशाङ्गमुक्त्वा तत्स्थानेऽनुस्मरणान्महार्थः, इयमत्र भावना-मरणकाले द्वादशाङ्गपरावर्तनाशक्ती तत्स्थाने तत्कार्यकारित्वात् सर्वैरपि महर्षिभिरेष स्मर्यत इति द्वादशाङ्गसङ्ग्राहिता, तद्भावाच्च महार्थ इति ॥ तथा चाह भाष्यकृत्-"जलणादिभए सेसं मोत्तुं ए(उद)गरयणं महामोल्लं। जुहि वाऽभिभवे घेप्पट असो जह तहेह ॥१॥ मोत्तुंपि बारसंग स एव मरणमि कीरए जम्हा । अरिहंतनमोक्कारो तम्हा सो बारसंगत्थो॥२॥ सर्वपि बारसंगं परिणामविसुद्धिहेउमेत्तागं । तकारणभावातो कह न तदत्थो नमोक्कारो॥३॥न हु तम्मि देसकाले सक्को
RASHICHARISHIGASHIRIGACAPAIAK
आ. सू.८६
Jain Education
For Private
Personal Use Only
Corjainelibrary.org