________________
छतो न भवेडब्धे, दीनो सरक। विरतस्तपसोपेतश्छम् । परोक्षत्वा
परीषहाः
श्रीआवश्यकमलयगिरीयवृत्तौ नम
॥५०८॥
ROSAROSAROSSSC
येन्नात्मपूजकः । मूञ्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च ॥ १९॥ अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् ।। ज्ञानिनां ज्ञानमन्वीक्ष्य, तथैवेत्यन्यथा नतु ॥२०॥ विरतस्तपसोपेतश्छद्मस्थोऽहं तथापि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात्क्रमकालवित् ॥ २१॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वान्मृषा नैवं, चिन्तयेन् महतो ग्रहात् ॥ २२॥ शारीरमानसानेवं, स्वपरप्रेरितान् मुनिः। परीषहान् सहेताभी, कायवाङ्मनसा सदा ॥२३॥ ज्ञानावरणवेद्येषु, मोहनीयान्तराययोः। कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥ २४ ॥ क्षुत्पिपासा च शीतोष्णे, दंशका मशकादयः। चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥२५॥ वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवी ॥ २६ ॥ चतुद्देशैते विज्ञेयाः, सम्भवेन परीषहाः। ससूक्ष्मसम्परायस्य, छद्मस्थारागिणोऽपि च ॥२७॥ क्षुत्पिपासा च शीतोष्णदंशचयों वधो मलःशय्या रोगतृणस्पशौं, जिने वेद्यस्य सम्भवात् ॥२८॥ विस्तरार्थो ग्रन्थान्तरात् तत्त्वार्थटीकादेरवसेयः॥ एते च परीषहा द्विविधाः, तद्यथा-द्रव्यपरीषहा भावपरीपहाश्च, तत्र द्रव्यपरीपहा नाम ये इहलोकनिमित्तं बन्धनादिषु वा परवशेनाघिसह्यन्ते, तत्रोदाहरणं यथा सामायिके चक्रदृष्टान्ते इन्द्रपुरे इन्द्रदत्तपुत्रस्य, भावपरीषहा ये संसारव्यवच्छेदमनसाऽनाकुलेन सताऽधिसह्यन्ते, तैरेव चात्राधिकारः॥
अधुना उपसर्गद्वारावसरः-तत्र उप-सामीप्येन सर्जनं उपसृज्यतेऽसाविति वा उपसर्गः, ते चतुर्विधाः, तद्यथा-दिव्या मानुषास्तैर्यग्योना आत्मसंवेदनीयाश्च, तत्र दिव्याश्चतुर्विधास्तद्यथा-हास्यात् क्रीडात इत्यर्थः१, प्रद्वेषात् अवज्ञापूर्वभावसम्बन्धादिकृतात् २, विमर्शात् किमयं स्वप्रतिज्ञातश्चलति नवेत्येवंरूपात् ३ पृथग्विमात्रातश्च, किमपि हास्यात् किञ्चित् प्रद्वेषा
*५०८॥
Jain Education
a
l
For Private & Personal Use Only
R
ainelibrary.org