________________
श्रीआव- श्यकमल- यगिरीयवृत्तौ नमस्कारे
SAROKAR PAASAASAASASSAS
एव-पृथिव्यादिषड्जीवनिकाया एव गावः जीवनिकायगावः तान् , ते भगवन्तोऽर्हन्तो जिना महागोपाः पालयन्ति-रक्षन्ति महागोपता मरणादिभयेभ्यो, निर्वाणवनं च प्रापयन्ति, एवं ते जिनेन्द्रा इह-अस्मिन् जीवलोके उपकारित्वहेतोः सर्वस्य भव्यजीव- रागाधरिलोकस्य नमोऽर्हा लोकोत्तमभावतः, तथा च एवं तावदुक्तेन प्रकारेण नमोऽहत्त्वे पंच हेतवो-गुणाः प्रतिपादिताः॥ माम्प्रतं नामनं प्रकारान्तरेण नमोऽर्हत्त्वहेतुगुणाभिधित्सयाऽऽह| रागद्दोसकसाए, इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयन्तो नमोऽरिहा ॥९१८ ॥ | रागद्वेषकषायान् इन्द्रियाणि पश्चापि परिषहान् उपसर्गान् नामयन्तो नमोऽर्हाः ॥ तत्र 'रञ्जी रागे' रज्यतेऽनेनास्मिन् वा रञ्जनं वा रागः, स च नामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो रागपदार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदतस्त्रिविधः, ज्ञशरीरभव्यश-| रीरे प्रतीते, व्यतिरिक्तो द्विधा-कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च, तत्र कर्मद्रव्यरागश्चतुर्विधः, तद्यथा-रागवेदनीयपुद्गला योग्या १ बध्यमानकाः२ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणाम प्राप्ता वध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनात्मसात्कृता बद्धाः, उदीरणाकरणेनाकृष्योदीरणावलि-17 काप्रविष्टा उदीरणावलिकाप्राप्ता, नोकर्मद्रव्यरागः-कर्मरागैकदेशः तदन्यो वा, तत्र तदन्यो द्विविधः-प्रायोगिको
॥४९७॥ वैश्रसिकश्च, प्रायोगिकः कुसुम्भरागादिः, वैश्रसिकः सन्ध्याभ्ररागादिः, भावरागोऽपि द्विधा-आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणामविशेषः, स च द्विधा-प्रशस्तः अप्र-1
॥४९७॥
Join Education
a
l
For Private & Personal Use Only
P
inelibrary.org