SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विवक्षया नमस्कारदेशोऽनमस्कारो वा, देशसर्वनिषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, एषा चतुर्विधा प्ररूपणा । अथैतेषु भङ्गेषु मध्ये को नयः कान् भङ्गका निच्छतीति निरूप्यते, तत्र शब्दादयस्त्रयः शब्दनयाः सम्पूर्णमेव प्रदेशरहितमखण्डं वस्त्वभ्युपगच्छन्तीति तन्मतेन द्वावेव भङ्गौ-नमस्कारोऽनमस्कार इति, नैगमादयस्तु चत्वारो नया देशप्रदेशानपि वस्तुनोऽभ्युपगच्छन्तीति तन्मतापेक्षया चत्वारोऽपि भङ्गाः, तदेवं प्रागुक्ता पञ्चविधा प्ररूपणा इयं चतुर्विधेति सङ्कलने प्रकारान्तरेण नवविधा प्ररूपणा प्रतिपादिता द्रष्टव्या, गतं प्ररूपणाद्वारम् । इदानी है 'वत्थु तऽरहंताई पंच भवे तेसिमो हेऊ' इति गाथाशकलोपन्यस्तं वस्तुद्वारमवसरप्राप्तं विस्तरतो व्याख्यायते, तच्चानन्तरोक्तं गाथाशकलं प्रागेव व्याख्यातं, नवरं तत्र यदुक्तं तेषां वस्तुत्वे अयं हेतु' रिति स इदानीं हेतुरुच्यते, तत्रेयं गाथा मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥९०३ ॥ | मार्गः अविप्रणाश आचारः विनयता सहायत्वं यथाक्रममईदादीनां नमस्काराहवे इमे हेतवः, तथा चाह-पञ्चविधनमस्कार करोम्येतैर्हेतुभिरिति ॥ इयमत्र भावना-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिलक्षणो हेतुः, तथाहि-असौ मार्गों भगवद्भिरेव प्रदर्शितः तस्माच्च मुक्तिपदावाप्तिः ततः परम्परया मुक्तिहेतुत्वान्नमस्कारार्हास्ते इति, सिद्धानां नमस्कारार्हत्वेऽवि-18 प्रणाशः-शाश्वतत्वं हेतुः, यतस्तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते, तथा आचार्याणां नमस्काराहत्वे आचारो हेतुः, तथाहि-तानाचारयत आचारख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठाननिमित्तं यतन्ते, उपा-18 ध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान स्वयं विनीतान प्राप्य कर्मविनयसामर्थ्य विनयवन्तो भवन्ति देहिनः, Jain Educati o nal For Private & Personel Use Only Wiko.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy