SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आ. सू. ८३ 69 क्षायिकौपशमिकयोरप्येके वदन्ति, तत्र क्षायिके यथा श्रेणिकस्य, औपशमिके श्रेण्यन्तर्गतानामिति, इह यद्यपि 'उद्देशक्रमेण निर्देश' इति भागद्वारव्याख्यानानन्तरं भावद्वारव्याख्यानमुचितं तथापि 'विचित्रा सूत्रगति'रिति न कश्चिद्दोषः ॥ सम्प्रति भागद्वारं व्याचिख्यासुराह Jain Education termank जीवाणsaभागो पडिवन्नो सेसगा अनंतगुणा । जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते, शेषास्तु नमस्कारमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः, गतं भागद्वारम् । अल्पबहुत्वद्वारम् - यथा पीठिकायां मतिज्ञानस्य तथा भावनीयं ॥ तदेवं कृता नवपदप्ररूपणा, सम्प्रति चशदाक्षिप्तां पञ्चविधप्ररूपणामभिधाय पश्चिमार्धेन वस्तुद्वारं निरूपयति वत्युं अरहंताई पंच भवे तेसिमो हेऊ ॥ ९०९ ॥ वस्तु दलिकं द्रव्यं योग्यमर्हमित्यनर्थान्तरं तत्र वस्तु - नमस्कारस्य योग्यमर्हदादयः पञ्च भवन्ति तेषां च वस्तुत्वे-नमस्कारार्हत्वेऽयं वक्ष्यमाणलक्षणो हेतुः ॥ साम्प्रतं चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपिपादयिषुराह— आरोवणाय भयणा पुच्छण तह दावणा य निजवणा । आरोपणा भजना पृच्छा 'दायण' त्ति दर्शना दापना वा निर्यापना च तत्र किं जीव एव नमस्कारः ? आहोश्विन्नम|स्कारो वा जीव ? इत्येवं यत्परस्परमवधारणाऽऽरोपणं पर्यनुयोगरूपमेवा आरोपणा, उक्तं च- " किं जीवो होज्ज नमो ? नमो व जीवोत्ति ? जं परोप्परतो । अज्झारोवणमेसो पजणुजोगो मयाऽऽरुवणा || १||" अत्र जीव एव नमस्कार इति प्रत्य For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy