SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाकापुरुषचरिते ॥२१२॥ द्वितीय पर्व तृतीयः सर्गः अजितसगरयो. श्वरितम् । GLOCALCARDCORRECARDCORROREOGREEMECOM पुमानेषां च कार्येण, युक्तायुक्तमचिन्तयन् । विमूढः पशुवन्नानापापानि विदधाति हि ॥ १२८॥ येषामर्थे च पापानि, विधत्ते मुग्धधीर्जनः । ते तं मृत्युपथे यान्तं, नानुयान्ति मनागपि ॥ १२९ ॥ इहैव तेऽवतिष्ठन्ते, यदि तिष्ठन्तु तन्ननु । अहो ! शरीरमप्येतन्नाऽनुयाति पदात् पदम् ॥ १३०॥ ततः शरीरकस्यापि, कृतघ्नस्य कृते मुधा । मुग्धैर्विधीयते हन्त !, पापकर्म शरीरिभिः ॥१३१॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ १३२ ।। अन्यैस्तेनार्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥१३३ ॥ दुःखदावाग्निभीष्मेसिन, वितते भवकानने । बम्भ्रमीत्येक एवाऽसौ, जन्तुः कर्मवशीकृतः ॥ १३४ ॥ यद् दुःखं भवसम्बन्धि, यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तन्न सहायोऽस्ति कश्चन ॥ १३५॥ यथैवैकस्तरन् सिन्धुपारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ १३६ ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥१३७॥ इति चिन्तापरं नाथं, भवनिर्विष्णचेतसम् । सारस्वतादयो लोकान्तिका एत्याऽब्रुवन् सुराः॥१३८॥ खयं बुद्धोऽसि भगवन्नसाभिन हि बोध्यसे । किन्त्विदं स्मार्यते विश्वनाथ ! तीर्थं प्रवर्तय ॥ १३९ ॥ इत्युदीर्याजितखामिपादान् नत्वा च ते तदा । ब्रह्मलोकं ययुः सायं, स्वनीडमिव पक्षिणः ॥१४॥ आत्मचिन्तानुकूलेन, तेन तद्वचसा प्रभोः । ववृधे भववैराग्यं, पौरस्त्यमरुताऽब्दवत् ॥१४१॥ ततः सगरमाहूय, जगाद त्रिजगद्गुरुः । गृह्यतां राज्यभारो नः, संसाराब्धि तितीर्षताम् ॥ १४२ ॥ । सञ्चितानि। २ पुनः पुनः भ्रमति । ३ पूर्व दिग्वायुना मेघो यथा वर्धते तद्वत् । अजितजिनस्य दीक्षासंकल्पः ॥२१२॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy