SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः सर्ग: ॥२०९॥ अजितसगरचरितम् । प्रतीहार्यभवन् केचिन्मयभूवंश्च केचन । केऽप्युपानद्धर्यभूवंश्छत्र्यभृवंश्च केचन ॥४३॥ स्थगीवाह्यभवन् केचित्, प्रेष्य्यभूवंश्च केचन । अस्त्रधार्यभवन् केचिदमराः क्रीडतः प्रभोः॥४४॥ पाठं पाठं च शास्त्राणि, सगरोपि दिने दिने । स्वनियोग नियोगीवाऽजितेशाय व्यजिज्ञपत ॥४५॥ उपाध्यायेनाऽप्यभग्नान् , संशयान् सगरः सुधीः । पप्रच्छ स्वामिनं नाभिनन्दनं भरतेशवत ॥४६॥ मति-श्रुता-ऽवधिज्ञानैरजितखाम्यपि द्रुतम् । चिच्छेद तस्य सन्देहांस्तमांसीवेन्दुरंशुभिः॥४७॥ । त्रिभिर्यतैः समाक्रामन् , दृढासनपरिग्रहः । प्रसार्याऽदर्शयत् तस्मै, स व्यालमपि हस्तिनम् ॥४८॥ सपर्याणानपर्याणान् , शूकलानपि वाजिनः । तत्पुरो वाहयामास, धाराभिरपि पञ्चभिः ॥४९॥ राधावेधं शब्दवेधं, जलान्तर्लक्षवेधनम् । चक्रमृत्पिण्डवेधं च, बाणैः सोऽदर्शयत् प्रभोः॥५०॥ अदर्शयत् पादगति, फलकासिधरश्च सः। प्रविष्टः फलकमध्येऽभ्रमध्य इव चन्द्रमाः ॥५१॥ कुन्तं शक्तिं शर्वलां च, भ्रमयामास वेगतः। नभसि भ्राम्यदुद्दामविद्युल्लेखाभ्रमप्रदान् ॥५२॥ ! सर्वैरपि छरीस्थानः, सर्वचारीविचक्षणः। अदर्शयच्छरीविद्यां स नृत्यमिव नर्तकः॥५३॥ अजितस्वामिनेऽन्येषां, शस्त्राणामपि कौशलम् । अदर्शयद् गुरुभक्त्या, तक्षिादित्सया च सः॥५४॥ न्यूनं यत्किश्चिदप्यासीत् , कलासु सगरस्य तु । खामी तदशिषत् तादृक्, तादृशस्य हि शिक्षकः ॥५५॥ एवमात्मानुरूपं तो, चेष्टमानावुभावपि । आद्यं वयो ललचाते, ग्रामसीमामिवाऽध्वगौ ॥५६॥ समानचतुरस्रेण, संस्थानेनोपशोभितौ । वज्रऋषभनाराचाख्येन संहननेन च ॥ ५७ ॥ १ छत्रधारका अभूवन् । २ ताम्बूलकरण्डकः स्थगीत्युच्यते । ३ ताडनैः। ४ दुष्टम् । ५ उद्धतान् । ६ तच्छिक्षाग्रहणेच्छया । सगरचक्रिणो विद्याभ्यासः M॥२०९॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy