SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ MERCEGOEN GANGI पाहुण्योपायशक्त्यादिप्रयोगोर्मिभिराकुलम् । अमाहिष्ट स दुर्गाहमर्थशास्त्रमहोदधिम् ॥ २९ ॥ सर्वोषधीरस-वीर्य-विपाकज्ञानदीपकम् । अप्यायुर्वेदमष्टाङ्गमध्यष्टाऽकष्टमेव सः ॥३०॥ चतुर्वाचं चतुर्वृत्ति, चतुर्धाभिवयात्मकम् । स तूर्यत्रयविज्ञाननिदानं शास्त्रमाददे ॥३१॥ दन्तघात-मदावस्था-ऽङ्गालक्षणचिकित्सितैः । बिनोपदेशैश्चाऽऽपूर्ण, सोऽज्ञासीद् गजलक्षणम् ॥ ३२॥ स वाहनविधि चाश्वलक्षणं सचिकित्सितम् । पाठतोऽनुभवतश्च, विदथे हृदयङ्गमम् ॥ ३३॥ धनुर्वेदमथाऽन्येषां, शस्त्राणामपि लक्षणम् । श्रुतमात्र लीलयापि, स खनामेव हृधधात् ॥३४॥ धनुषा फलका-सिभ्यां, छुर्या शल्येन पशुना । कुन्तेन भिन्दिपालेन, दया कम्पन च ॥३५॥ दण्डेन शक्त्या शूलेन, हलेन मुशलेन च । यष्टि पट्टिस-दुःस्फोट-मुघुण्डी-गोफणैरपि ॥ ३६॥ कायेन त्रिशूलेन, शङ्खना चापरैरपि । शौः शास्त्रानुमानेव, सोऽगात् सङ्घामकौशलम् ॥ ३७॥ ॥विभिर्विशेषकम् ।। सोऽभूत् सर्वकलापूर्णः, शशाङ्क इत्र पार्वणः । भूपरिव च गुणैर्विनयाकैरभूष्यत ॥ ३८॥ श्रीमानजितनाथोषि, यसिंस्तसिबपि क्षो । शक्रादिभिः सुरैर्भक्तिभाग्भिरेषमसेव्यत ॥ ३९ ॥ चिक्रीडः केचिदाणत्य, सवयोभूय नाकिनः। अजितखामिनस्तसल्लीलालोकनलालसाः॥४०॥ नोक्तिभिर्विचित्राभिश्चाटुमिश्च मुहुर्मुहुः । तं केप्यमापयंस्तद्वाक्सुधारसपिपासिताः ॥४१॥ आदेशाकासया भर्तुरसमादिशतः सतः। क्रीडाधूते पणीकृत्याऽऽदेशान् खं केऽप्यहारयन् ॥४२॥ . फलक 'ढाल' इति लोंके प्रसिद्धम् । Jain Education Internal For Private & Personal use only Jawww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy