________________
त्रिषष्टिशलाकापुरुषचरिते ॥२०७॥
*OSAA SOSIALISASSOS
वैतालिकैरनुत्तालैश्चके जयजयारवः । उदारैस्तत्प्रतिरवैर्मण्डपोऽपि जगाविव ॥ ५७८ ॥ गर्भस्थितस्य माताऽस्य, नाऽक्षयूते जिता मया । इति सूनोरजित इत्यकान्निाम भूपतिः ॥५७९॥ महेन महता भ्रातुष्पुत्रस्यापि वपुत्रवत् । नरेश्वरः सगर इत्यकरोन्नाम पावनम् ॥ ५८०॥
उत्कृष्टलक्षणशतैरुपलक्ष्यमाणो, क्षोणीसमुद्धरणकर्मसहौ कुमारौ ।
राजा भुजाविव निजावपरौ प्रपश्यन् , पीयूषमग्न इव सौख्यमखण्डमाप ॥ ५८१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि
अजितखामितीर्थकर-सगरचक्रधरजन्मवर्णनो नाम द्वितीयः सर्गः॥
द्वितीयं पर्व द्वितीय
सर्ग: अजितसगरचरितम् ।
ASHISESEOSESSISSEASESORA
॥२०७॥
Jain Education Intern
For Private & Personal use only
I
www.jainelibrary.org