SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः पालाश्च तस्यापि, प्राग्वद् दानाचले । चतुर्पु तद्दधिमबाण, चक्रुर्दधिमुखेपुर सगे ॥२०५॥ अजितसगरचरितम्। सौधर्मेन्द्रस्य चत्वारो, लोकपालाश्चतुर्वपि । अष्टाह्निकोत्सवं हृष्टाश्चक्रुर्दधिमुखाद्रिषु ॥ ५२३ ॥ उत्तरसिन्नञ्जनाद्री, शाश्वतायतनेषु तु । ईशानेन्द्रः शाश्वताहत्प्रतिमाष्टाह्निकां व्यधात् ॥ ५२४ ॥ लोकपालाश्च तस्यापि, प्राग्वद् दधिमुखाद्रिषु । ऋषभादिप्रतिमानां, व्यधुरष्टाह्निकोत्सवम् ॥ ५२५॥ अष्टाह्निकां चमरेन्द्रश्चक्रेऽपाच्येऽञ्जनाचले । चतुर्पु तद्दधिमुखाद्रिषु तस्य तु लोकपाः ॥ ५२६ ॥ बलीन्द्रोऽष्टाह्निकां चक्रे, पश्चिमे त्वञ्जनाचले । तल्लोकपालाः शैलेषु, चक्रुदेधिमुखेषु तु ॥ ५२७॥ ततश्च सङ्केतस्थानादिव द्वीपवरात् ततः। कृतकृत्या निजनिजं, स्थानं जग्मुः सुरा-ऽसुराः॥५२८॥ । इतश्च तस्यां यामिन्यामन्वहद् वैजयन्त्यपि । सुखेन सुषुवे सूर्नु, गङ्गेव कनकाम्बुजम् ॥ ५२९ ॥ जाया-वध्वोस्तु विजया-वैजयन्त्योः परिच्छदः । पुत्रोत्पत्तिकिंवदन्त्या, जितशत्रुमवर्धयत् ॥५३०॥ तया च वार्तया तुष्टो, राजाऽदात् पारितोषिकम् । तथा यथा तत्कुलेपि, श्रीरभूत् कामधेनुवत् ॥५३१॥ घनागमे सिन्धुरिव, सिन्धुराडिव पर्वणि । स्फारीबभूव वपुषा, तदानीं मेदिनीपतिः ॥ ५३२॥ उच्छासं सह मेदिन्या, प्रसादं नभसा सह । आप्यायकत्वं मरुता, सह भेजे महीपतिः॥५३३॥ राज्ञा मुमुचिरे तेन, काराबन्धाद् द्विषोपि हि । अवाशिष्यत बन्धस्तु, तदेभादिषु केवलम् ॥ ५३४॥ चैत्येषु जिनबिम्बानां, पूजाश्च विदधेऽद्धताः । शाश्वतार्हत्प्रतिमानामिव शक्रो नरेश्वरः॥५३५॥ अर्थिनश्च स्वक-परानपेक्षं सोधिनोद् धनैः । सर्वसाधारणी वृष्टिारिदस्योद्यतस्य हि ॥ ५३६ ॥ उपाययुरुपाध्यायाः, पठन्तः सूतमातृकाम् । उल्ललद्भिः समं छात्रैर्वत्सः कीलोज्झितैरिव ॥ ५३७॥ १ वृत्तान्तेन । २ तृप्तत्वम् । ३ अतर्पयत् । ४ कीलकबन्धान्मुक्तः । जितशत्रुरानविहितोऽजितजिन-सगरचक्रिजन्मो सवः |॥२०५० Jain Education Internal For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy