________________
मणि-रत्नयुता हारा, अर्धहाराश्च हारिणः । हरिणा दधिरे तत्र, दृग्विनोदकृते प्रभोः॥५०८॥ तत्राऽपखापनी देव्या, विजयाया जहार सः। कुमुदिन्या इव शशी, पद्मिन्या इव चार्यमा ॥५०९॥ शक्रादिष्टवैश्रवणनिदेशेन दिवौकसः । जृम्भका नाम तत्रेयुर्जितशत्रुनिकेतने ॥ ५१०॥ हिरण्य-स्वर्ण-रत्नानां, कोटी त्रिंशतं पृथक् । ववृषुस्ते द्वात्रिंशतं, नन्दभद्रासनानि च ॥ ५११ ॥ व्यधुर्भूषणवृष्टिं च, मण्यङ्गा इव शाखिनः । वस्त्रवृष्टिमथाऽनना, इव कल्पमहीरुहाः॥५१२॥ वनानि भद्रशालादीन्यवचित्येव सर्वतः । पत्रवृष्टिं पुष्पवृष्टिं, फलवृष्टिं च ते व्यधुः॥५१३ ॥ विचित्रवर्णसुमनोमाल्यवृष्टिं महीयसीम् । वितेनिरे च चित्राङ्गनामकल्पद्रुमा इव ॥५१४॥ विदधुर्गन्धवृष्टिं च, चूर्णवृष्टिं च पावनीम् । उत्क्षिप्तैलादिकक्षोदा, इव दक्षिणमारुताः ॥५१५॥ अत्युदारां वसुधारावृष्टिं च परितेनिरे । वारिधारावृष्टिमिव, पुष्करावर्तवारिदाः ॥ ५१६ ॥ सौधर्मशासिनः पाकशासनस्याऽनुशासनात् । अथाऽऽभियोगिका देवा, इत्थमाघोषणां व्यधुः॥५१७॥ आकर्णयन्तु सर्वेऽपि, भो भो वैमानिकाः सुराः !। भवनाधिपति-ज्योतिय॑न्तराश्चाधानतः ॥५१८॥ अर्हतोऽर्हजनन्याश्च, योऽशुभं चिन्तयिष्यति । तन्मूर्धा सप्तधा गच्छत्वर्जकस्येव मञ्जरी॥५१९॥ तदा च मेरुशिखरात, सेन्द्राः सर्वे सुरा-ऽसुराः । द्वीपं कन्दलितानन्दा, नन्दीश्वरमुपाययुः॥५२०॥ भगवन्तं नमस्कृत्य, जितशत्रुनिकेतनात् । ययौ नन्दीश्वरद्वीपं, सौधर्मेन्द्रोऽपि तत्क्षणात् ॥५२॥ तत्राञ्जनाद्रौ पूर्वस्मिन् , शाश्वतायतनेषु सः। शाश्वतार्हत्प्रतिमानां, चकाराऽष्टाह्निकोत्सवम् ॥ ५२२ ॥ १ मनोहराः । २ सूर्यः। ३ सिंहासनविशेषाः। ४ सावधानतया। ५ पञ्छवितानन्दाः ।
सौधर्मेन्द्रेणाजितप्रभोः मातुः समीपे नयनम्
Jain Education inte
For Private & Personal use only
www.jainelibrary.org