SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः ॥२०४॥ शक्रस्तवेन वन्दित्वा, प्रणम्य च जगत्पतिम् । हर्षगद्गदया वाचा, स स्तोतुं प्रास्तवीदिति ॥ ४९३ ॥ - जय त्रिभुवनाधीश !, जय विश्वकवत्सल ! । जय पुण्यलतोद्भेदनवाम्बुद ! जगत्प्रभो! ॥ ४९४ ॥ स्वामिन् ! विमानाद् विजयादवतीर्णोऽसि भूतले । इदं जगत् प्रीणयितुं, सरिदोघ इवाचलात् ॥४९५॥ बीजं मोक्षद्रुमस्येव, ज्ञानत्रितयमुज्वलम् । स्वामिन्नाजन्मसिद्धं ते, शीतलत्वमिवाम्भसः॥ ४९६ ।। ये त्वां त्रिभुवनाधीश, धारयन्ति सदा हृदि । सम्मुखीनाः श्रियस्तेषामादर्शप्रतिबिम्बवत् ॥ ४९७॥ उल्वणैर्बाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्ट्या त्वमगदङ्कारप्रतीकारकरोऽभवः ॥ ४९८॥ त्वद्दर्शनसुधासारास्वादस्य त्रिजगत्पते । मरुपान्था इव वयं, न तृप्यामो मनागपि ॥ ४९९ ॥ रथः सारथिनेवाऽद्य, कर्णधारेण नौरिव । पथा बजतु लोकोऽयं, त्वया नेत्रा जगत्पते ! ॥ ५००॥ त्वत्पादपद्मशुश्रूषासमयाधिगमेन नः । भगवन्निदमैश्वर्य, कृतार्थमधुनाऽभवत् ॥ ५०१॥ स्तुत्वैवमादिभिः श्लोकैरष्टोत्तरशतेन तम् । विचके पञ्चधा रूपं, प्राग्वत् प्राचीनबर्हिपा ॥५०२॥ नाथमेकोऽग्रहीच्छत्रमेको द्वावथ चामरे । वज्रपाणिः पुरस्तस्थावेकः शक्रस्तु पूर्ववत् ॥५०३॥ ततो मनोवत् स यथाकामीनः सपरिच्छदः । विनीतात्मा विनीतायां, जितशत्रुगृहं ययौ ॥५०४॥ तीर्थकृत्प्रतिरूपं स, संवत्रे तत्र तत्क्षणात । विजयावामिनीपार्श्वे, तीर्थनार्थ न्यधत्त च ॥ ५०५॥ उच्छीर्षे कुण्डलद्वन्द्वं, न्यधादर्केन्दुसोदरम् । देवदृष्यं च मसृणं, कोमलं शीतलं प्रभोः ॥५०६ ॥ दिवोऽवतरदभिं, वर्णप्राकारमण्डितम् । बबन्ध भर्तुरुल्लोचे, शक्रः श्रीदामगण्डकम् ॥५०७॥ * कारः, प्रति सच २ सङ्घ ३॥ १ इन्द्रेण । २ यथेच्छगामी । ३ नम्रात्मा। खिग्धम् । AUSTO OSASTOSSA अजित सगरचरितम्। मेरुधिरसि सौधर्मेन्द्रविहितमजितजिनपूजनम् ॥२०४॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy