________________
Jain Education Int
लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाऽऽहार-नीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ४७८ ॥
इति स्तुत्वा प्रभुं किञ्चिदपक्रम्य कृताञ्जलिः । शुश्रूषातत्परस्तस्थावच्युतो ऽच्युतभक्तिभाक् ॥ ४७९ ॥ इन्द्रा द्वाषष्टिरन्येऽपि, क्रमेण सपरिच्छदाः । अभिषेकं जगद्भर्तुश्चक्रुरच्युतनाथवत् ॥ ४८० ॥ तद्वत् स्तुत्वा नमस्कृत्याऽपक्रम्य च कृताञ्जलि । उपासाञ्चक्रिरे नाथं, तत्पराः किङ्करा इव ॥ ४८१ ॥ अथ सौधर्मकल्पेन्द्र, इव द्रागतिभक्तितः । विचक्रे पञ्चधाऽऽत्मानं, द्वितीयस्वर्गवासवः ॥ ४८२ ॥ अतिपाण्डुकम्बलायामर्धचन्द्रसमाकृतौ । ऐशानकल्पवत् सिंहासनमेकोऽथ शिश्रिये ॥ ४८३ ॥ शक्रोत्सङ्गानिजोत्सङ्ग, रथादिव रथान्तरम् । स समारोपयामास, यतमानो जगद्गुरुम् ॥ ४८४ ॥ आतपत्रं दधारैको विशदं स्वामिमूर्धनि । धारयामासतुश्चान्यौ, चामरे प्रभुपार्श्वयोः ॥ ४८५ ।। पञ्चमः शूलपाणिः सन्, पुरस्तस्थौ जगत्पतेः । प्रतीहार इवोदारेणाऽऽकारेण मनोरमः ॥ ४८६ ॥
ततः सौधर्मकल्पेन्द्रोऽप्यमरैराभियोगिकैः । अभिषेकोपकरणद्रव्याण्यानाययद् द्रुतम् ॥ ४८७ ॥ दिक्षु प्रभोवतसृषु, स्फटिकाद्री निवाऽपरान् । स्फाटिकान् सोऽतिचतुरचतुरो व्यकरोद् वृषान् ॥ ४८८ ॥ तेषां वृषाणां शृङ्गेभ्योऽष्टभ्य उत्पेतुरुज्वलाः । अष्टाम्बुधारा धवला, रश्मिदण्डा इवैन्दवाः ॥ ४८९ ॥ समुत्पत्य मिलन्ति स्म, पुरो नद्य इवैकतः । निपतन्ति स्म पयसां, पैत्याविव जगत्पतौ ।। ४९० ॥ अभिषेकं जगद्भर्तुरेवङ्कारं चकार सः । भङ्ग्यन्तरेण कविवच्छक्ताः खं ज्ञापयन्ति हि ॥ ४९१ ॥ मार्ष्टि विलेपनं पूजामष्टमङ्गलिकामपि । आरात्रिकं च विधिना, विदधे सोऽच्युतेन्द्रवत् ॥ ४९२ ॥ १ अतिदक्षः । २ समुद्रे | ३ मार्जनम् ।
For Private & Personal Use Only
मेरुशिरस सौधर्मेन्द्र
विहितम
जितजिनपूजनम्
www.jainelibrary.org