SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः ॥२०३॥ अजितसगरचरितम् । कुम्भो भद्रासना-ऽऽदी, श्रीवत्स-खस्तिकावपि । नन्द्यावों वर्धमानो, मत्स्य इत्यष्टमङ्गलीम् ॥ ४६४ ॥ अत्यच्छै रजतमयैरखण्डैरथ तण्डुलैः। आरणा-ऽच्युतकल्पेन्द्र, आलिलेखाऽग्रतःप्रभोः॥४६५॥ युग्मम् ]] भक्तिनिघ्नो जानुदप्नं, कुसुमप्रकरं ततः। अमुश्चत् पञ्चवर्ण स, सन्ध्याभ्रकणिकोपमम् ॥ ४६६॥ उत्तोरणामिव दिवं, कुर्वाणो धूमवर्तिभिः । उर्दूपदहनो धूपमधूपायदथाऽच्युतः॥४६७॥ उत्क्षिप्यमाणे धूपे च, वाद्यमानाऽमरोत्तमैः । सङ्क्षिसेव महाघोषा, घण्टा तारस्वरा बभौ ॥ ४६८॥ हरिरुत्तारयामासाऽऽरात्रिकं स्वामिने स्वयम् । उच्छिखामण्डलं ज्योतिर्मण्डलश्रीविडम्बकम् ॥ ४६९ ॥ ततः पदानि सप्ताष्टान्यपक्रम्य प्रणम्य च । रोमाञ्चितोऽच्युतपतिः, स्तोतुमेवं प्रचक्रमे ॥ ४७० ॥ जात्यजाम्बूनदच्छेदच्छविच्छन्ननभस्तल! प्रभो! तवाधौतशुचिः, कायः कमिव नाऽऽक्षिपेत॥४७१॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥ ४७२ ॥ . दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ !, नाऽङ्गे रोगोरगव्रजाः॥ ४७३ ॥ त्वय्यॊदर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः १ ॥ ४७४ ॥ न केवलं रागमुक्तं, वीतराग! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ४७५ ॥ जगद्विलक्षणं किं वा, तवाऽन्यद् वक्तुमीश्महे ? । यदविप्रेमबीभत्सं, शुभ्रं मांसमपि प्रभो! ॥ ४७६ ॥ जल-स्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ ४७७॥ , अतिस्वच्छैः। २ जानुप्रमाणम् । * उद्धृतदहनो सङ्घ १॥ ३ सुवर्णम् । ४ आदर्शतलप्रतिविम्बितप्रतिमासदृशे । ५ दुग्धधारासदृशम् । ६ दुर्गन्धरहितम् । ७ कुसुममालाः । मेरुशिरसि अच्युतेन्द्र विहितमजितजिनपूजनम् OSTOSKORO ॥२०॥ Jain Education a l For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy