________________
त्रिषष्टिशलाकापुरुषचरिते ॥२०२॥
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् ।
RESSOURCES ACROSTICHES
त्रयस्त्रिंशत्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः । पर्षद्भिस्तिसृभिः सैन्यैः, सैन्यनाथैश्च सप्तभिः॥४३६ ॥ चत्वारिंशता सहस्रैश्चाऽऽत्मरक्षदिवौकसाम् । उत्तरासङ्गवानग्रे, विमुच्य कुसुमाञ्जलिम् ॥ ४३७॥ । कृतचर्चाश्चन्दनेन, सेराब्जपिहिताननान् । अष्टोत्तरं सहस्रं स, कुम्भान् देवैः सहाऽग्रहीत् ॥ ४३८ ।। तान् कुम्भान् लोठयामास, स्वामिमूर्धन्यथाऽच्युतः। भक्तिप्रकर्षतः कुर्वन्नात्मवन्नमिताननान् ॥४३९ ॥ खामिसङ्गात् तदम्भोऽगात, पुण्यमप्यतिपुण्यताम् । तापनीये बलङ्कारे, सुतरां द्योतते मणिः॥४४०॥ पानीयधारोद्गिरणान्नदन्तः कलसाश्च ते । स्वामिनावविधौ मत्रान् , पठन्त इव रेजिरे ॥ ४४१॥ कुम्भेभ्यो निपतंस्तेभ्योऽम्भःप्रवाहो महांस्तदा । स्वामिलावण्यसरितावेणीसङ्गमतां ययौ ॥ ४४२॥ अङ्गेषु स्वामिनः स्वर्णगौरेषु प्रसरत् पयः । तद् गाङ्गमिव हैमेषु, पद्मखण्डेष्वराजत ॥ ४४३ ॥ आ सर्वाङ्गं प्रसरता, निर्मलेनाऽतिहारिणा । वारिणा शुशुभे तेन, संसंव्यान इव प्रभुः॥ ४४४ ॥ तत्रेन्द्रेभ्यः सुरेभ्यश्च, केपि भक्तिभराकुलाः । उत्क्षिप्य स्नपयितृभ्यः, पूर्णकुम्भानुपानयन् ॥ ४४५ ॥ तस्थुश्याकराः केचित् , केचिच्चामरपाणयः । उद्धृपदहनाः केचित् , पुष्पगन्धभृतोऽपरे ॥ ४४६ ॥ पेठुः स्वात्रविधि केपि, केपि चक्रुर्जयारवम् । केचिच्च ताडयामासुर्दुन्दुभीन् कोणपाणयः ॥ ४४७॥ केऽप्युत्फुल्लकपोला-ऽऽस्यास्तारं शङ्खानपूरयन् । मिथ आस्फालयामासुः, कांस्यतालानथाऽपरे ॥ ४४८॥ आजघ्नुर्झल्लरीः केपि, रत्नदण्डैरखण्डितैः । केचिदुन्नादचण्डिरनो, डिण्डिमान् पर्यताडयन् ॥ ४४९ ॥
विकसितकमलाच्छादितमुखान् । २ सौवर्णे । ३ शब्दायमानाः। ४ सुवर्णकमलेषु गङ्गावारीव। ५ उत्तरीयेण सहित इव । ६ छत्रधारिणः । ७ यष्टिपाणयः ।
मेरुविरसि भव्युतेन्द्र विहितमजितजिनपूजनम्
॥२०२॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org.