SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ एतावन्तश्च भृङ्गारा, दर्पणा भाजनानि च । पात्र्यश्च सुप्रतिष्ठाश्च, तथा रत्नकरण्डकाः॥४२२॥ पुष्पचङ्गेरिकाश्चापि, प्रत्येकं तैर्विचक्रिरे । अकालक्षेपतः कोशागारादिव समाहृताः॥ ४२३ ॥ आदाय तांश्च ते देवाः, कलसानलसेतराः । सरसीवाऽम्बुहारिण्यो, ययुः क्षीरोदसागरे ॥४२४॥ उद्बुद्बुदरवैः कुम्भैरुन्मङ्गलरवैरिव । खैरं क्षीरोदकं तत्र, तेऽगृह्णन् जलदा इव ॥ ४२५ ॥ पुण्डरीकाणि पद्मानि, कुमुदान्युत्पलानि च । सहस्रपत्राणि शतपत्राण्याददिरे च ते ॥ ४२६ ॥ उपेत्य पुष्करोदेऽपि, तेऽम्बुधौ पुष्करादिकम् । भृशायमाना जगृहुर्तीपे सांयात्रिका इव ॥ ४२७ ॥ भरतैरवतक्षेत्रवर्तिनामुदकादिकम् । तीर्थानां मागधादीनामप्युपाददिरे सुराः ॥ ४२८॥ गङ्गादिषु इदिनीषु, पद्मादिषु इदेषु च । मृदम्भोजानि जगृहुः, सन्तप्ताः पथिका इव ।। ४२९ ॥ सर्वतः कुलशैलेभ्यो, वैताख्येभ्यश्च सर्वतः । सर्वतो विजयेभ्यश्च, वक्षारेभ्यश्च सर्वतः॥ ४३० ॥ देवोत्तरकुरुभ्यश्च, सुमेरुपरिधिस्थितात् । भद्रशालान्नन्दनाच्च, सौमनसाच्च पाण्डकात् ॥४३१॥ पर्वतेभ्यश्च मलय-दर्दुरादिभ्य ओषधीः । गन्धान पुष्पाणि सिद्धार्थास्तेऽगृहंस्तुवराणि च ॥ ४३२॥ [त्रिभिर्विशेषकम् ] तानि द्रव्याणि सर्वाणि, मेलयन्ति स्म नाकिनः। भेषजानीव भिपजो, गन्धानिव च गान्धिकाः ॥४३३॥ तदुपादाय ते सर्वमुपस्वामि समाययुः । अच्युतेन्द्रस्य मनसा, स्पर्द्धमाना इवाऽऽदरात् ॥ ४३४ ॥ ततश्च भक्तिभागिन्द्र, आरणा-ऽच्युतकल्पयोः। वृतः सहस्रर्दशभिः, सामानिकदिवौकसाम् ॥४३५॥ 1 अप्रमादिनः। २ नौव्यापारिणः । Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy