________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२०१॥
Jain Education In
शान्ते नादे च घण्टानां सेनान्या घोषणे कृते । व्यन्तरास्ते पिशाचाद्या, एयुरिन्द्रानिजान्निजान् ॥ ४०८ ॥ इन्द्राः परिवृता देवैरत्रायस्त्रिंश-लोकपैः । त्रायस्त्रिंश-लोकपा हि, नैषां चन्द्रा-र्कयोरिव ॥ ४०९ ॥ सामानिकसहस्रैस्तु, ते चतुर्भिः पृथक् पृथक् । सहस्रैरात्मरक्षाणां वृताः षोडशभिस्तथा ॥ ४१० ॥ विकृतानि विमानानि, खैर्देवैराभियोगिकैः । तेऽधिरुह्य समाजग्मुमैरौ भगवदन्तिके ॥ ४११ ॥
तथाऽणपन्निकादीनां दक्षिणश्रेणिवर्तिनाम् । उत्तरश्रेणिभाजां च पिशाचादिसुरेन्द्रवत् ||४१२ ॥ व्यन्तराष्टनिकायानां, सुरनाथाश्च षोडश । प्राग्वदासनकम्पेन, ज्ञात्वा जन्म जिनेशितुः ॥ ४१३ ॥ मञ्जुस्वरां मञ्जुघोषां, पृथगास्फाल्य सैन्यपैः । घोषणां कारयित्वा च, स्वैः स्वैश्च व्यन्तरैर्युताः ॥ ४१४ ॥ अधिरुह्य विमानानि, विकृतान्याभियोगिकैः । सामानिकादिभिः प्राग्वत्, सम्भूयैयुर्जिनान्तिकम् ॥ ४१५ ।। [ चतुर्भिः कलापकम् ] चन्द्रा - ssदित्यावसङ्ख्यातौ तद्वदात्तपरिच्छदौ । आजग्मतुर्जिनं मेरौ, पितरं तनयाविव ।। ४१६ ।। एवमिन्द्राश्चतुःषष्टिः, स्वतन्त्राः परतन्त्रवत् । भक्त्या समापतन्ति स्म, स्वामिजन्मोत्सवेच्छया ॥ ४१७ ॥ एकादश-द्वादशयोः, कल्पयोरथ वासवः । स्नात्रोपकरणायाऽऽभियोगिकानादिशत् सुरान् ॥ ४१८ ॥ तैर्दिश्युत्तरपूर्वस्यामपक्रम्याऽऽभियोगिकैः । विधायोच्चैः समुद्धातमेवं कुम्भा विचक्रिरे ।। ४१९ ॥ सौवर्णा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि रूप्यरत्नमया अपि ॥ ४२० ॥ स्वर्णरूप्यरत्नमयास्तथा मृत्स्नामया अपि । अष्टाधिकानि प्रत्येकं शतानि दश सङ्ख्यया ।। ४२१ ।।
१ सेनापतिभिः । २ मृण्मयाः ।
For Private & Personal Use Only
द्वितीयं पर्व
द्वितीयः
सर्गः
अजित
सगर
चरितम् ।
मेरुशिरसि अच्युतेन्द्र
विहितम
जितजिन
पूजनम्
॥२०१॥
www.jainelibrary.org.