SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते। ॥२०॥ द्वितीयं पर्व द्वितीयः सर्ग: अजितसगरचरितम् । आभियोगिकदेवश्च, चमरेन्द्रस्य शासनात् । योजनार्धलक्षमान, विमानं व्यकरोत क्षणात ॥ ३७८ ॥ पञ्चयोजनशत्युच्चमहेन्द्रध्वजमण्डितम् । पोतः सकूपक इव, तद् विमानमराजत ॥ ३७९ ॥ चतुःषष्टिसहस्रैः स, समं सामानिकासुरैः । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः॥ ३८॥ परिवारसमेताभिर्महिषीभिश्च पञ्चभिः । तिसृभिः परिषद्भिश्च, महानीकैश्च सप्तभिः ॥ ३८१ ॥ सप्तभिश्चानीकनाथैः, सामानिकचतुर्गुणैः । आत्मरक्षैस्तथाऽन्यैरप्यसुराणां कुमारकैः ॥ ३८२॥ तद् विमानं समारुह्य, क्षणानन्दीश्वरं ययौ । विमानं खे रतिकरे, सश्चिक्षेप च शक्रवत् ॥ ३८३॥ प्रवाह इव जाह्नव्या, वेगात् पूर्वपयोनिधिम् । स ययौ स्वामिपादान्तं, मेरुपर्वतमर्धनि ॥ ३८४ ॥ . नगर्या बलिचञ्चायामुत्तरश्रेणिमण्डने । बलिश्चाऽऽसनकम्पेनाऽहजन्माऽवधिनाबुधत ॥ ३८५॥ तस्याऽऽदेशात् पत्त्यनीकपतिर्नाम्ना महाद्रुमः । द्राग् महोघखरां नाम, घण्टा त्रिःपर्यताडयत ॥३८६॥ घण्टानादे च विश्रान्ते, प्राग्वदाघोषणामसौ । अकार्षीदेसुरश्रोत्रसुधाश्रोतःसहोदराम् ।। ३८७ ॥ तया घोषणयाऽभ्येयुः, सर्वतोऽप्यसुरा बलिम् । अम्बुदस्येव नादेन, मानसं मानसौकसः ॥ ३८८ ॥ पूर्वसङ्ख्यैर्महिष्याधैर्युक्तः सामानिकैः पुनः । षष्टिसहस्रेस्तेभ्यश्चाऽऽत्मरक्षैस्तु चतुर्गुणैः ॥ ३८९ ॥ प्राग्मानेन विमानेन, प्राग्वदिन्द्रध्वजेन च । गत्वा नन्दीश्वररतिकरं मेरुशिरस्यगात ॥ ३९० ॥ घरणेन्द्रोहरिर्वेणुदेवश्चाऽग्निशिखस्तथा । वेलम्ब-सुघोष-जलकान्ताः पूर्णोऽमितोऽपि च ॥३९॥ नाग-विद्युत्-सुपर्णा-ऽग्नि-वायु-मेघ-सरस्वताम् । द्वीपानां च दिशांचेन्द्रा, दक्षिणश्रेणिगाः क्रमात् ।। . सेवकस्थानीयो देवः । २ असुरकर्णामृतप्रवाहसदृशाम् । ३ हंसाः । ४ पञ्चभिः । EXERCACANASANSAR अजितजिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामागमनम् ॥२०॥ Jain Education Inter For Private & Personal use only. www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy