SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विमानं पुष्पकं नामाऽध्यारुह्य सपरिच्छदः । दक्षिणेनैशानकल्पस्याऽध्वना निरगाद् द्रुतम् ॥३६४ ॥ [त्रिभिर्विशेषकम् ]. असङ्ख्यातान् समुल्लञ्चय, द्वीपा-ऽम्भोधीन क्षणादपि । नन्दीश्वरमहाद्वीपं, प्रापैशानसुरेश्वरः ॥ ३६५ ॥ तत्र चोत्तरपूर्वमिन्, शैले रतिकरे निजम् । सञ्चिक्षेप विमानादि, हेमन्त इव वासरम् ॥ ३६६ ॥ क्रमेण सविपस्तत् तदकालक्षेपतो ययौ । सुमेरावन्तवासीव, पादान्तं जगदीशितुः॥३६७ ॥ सनत्कुमारोब्रह्मा च, शुक्रश्च प्राणतःसुरैः। घण्टां सुघोषामास्फाल्य, बोधितर्नैगमेषिणा॥३६८ शक्रवद् वर्त्मनोदीचा, नन्दीश्वरमुपेत्य च । अपाक्पूर्वे रतिकरे, विमानादि समक्षिपन् ॥ ३६९ ॥ ययुश्च मेरुशिरसि, शक्रोत्सङ्गे निषेदुषः। सन्निधाने भगवतो, नक्षत्राणि विधोरिव ॥ ३७०॥ महेन्द्रो लान्तकश्चापि, सहस्रारोऽच्युतोऽपि च । महाघोषाऽलघुपराक्रमाभ्यां बोधितामराः ३७१ ईशानवद् दक्षिणेन, पथा नन्दीश्वरं ययुः । उदक्पूर्वे रतिकरे, विमानादि समक्षिपन्॥३७२ युग्मम् अधिस्वामि ततो जग्मुः, काश्चनाचलमूर्धनि । पथिका इव सानन्दं, वनेऽधिफलपादपम् ॥ ३७३ ॥ पुयां चमरचश्चायां, दक्षिणश्रेणिभूषणे । सुधर्मायां चकम्पे च, चमरस्याऽऽसनं तदा ॥३७४ ।। सोऽपि ज्ञात्वाऽवधिज्ञानात, तीर्थजन्म पावनम् । गत्वा पदानि सप्ताष्टान्याननाम जिनेश्वरम् ॥३७५॥ आज्ञया तस्य सद्योऽपि, पत्त्यनीकपतिर्दुमः। घण्टामोघखरां नामाऽऽस्फालयामास सुखराम् ।। ३७६ ॥ शान्ते चौघखराघोष, तेन चाऽऽघोषणे कृते । असुराश्चमरं भेजुः, सायं द्रुमिव पक्षिणः ॥ ३७७॥ | १ कालक्षेपं विना। २ शिष्य इव । * माहेन्द्रोसङ्घ ३ संता०॥ ३ अधिकानि फलानि यत्रेतादृशं पादपं प्रति । नाम्नाऽऽ° सङ्घ॥ अजितजिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामागमनम् त्रिषष्टि. ३५ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy