________________
शक्रसिंहासनसोचैस्तस्य पश्चिमतोऽभवन् । सप्तानामप्यनीकाधिपतीनामासनानि तु ॥ ३०५॥ शक्रासनस्य प्रत्येकं, ककुप्सु चतसृष्वपि । चतुरशीत्यात्मरक्षसहरुया आसनानि तु ॥ ३०६ ॥ ईदृग् विमानं शक्राज्ञासमकालमजायत । निष्पद्यन्ते सुमनसां, मनसा हीष्टसिद्धयः॥ ३०७ ॥
सङ्कन्दनो विचके च, जिनाभिगमनोत्सुकः । विचित्रभूषणधरं, रूपमुत्तरवैक्रियम् ॥ ३०८॥ लावण्यामृतवल्लीभिर्महिषीभिः सहाऽष्टभिः । नाट्यानीकेन गन्धर्वानीकेन च महीयसा ॥ ३०९ ॥ हृष्टः प्रदक्षिणीकृत्य, तद् विमानवरं हरिः । अध्यारुरोह पूर्वेण, रत्नसोपानवर्त्मना ॥ ३१ ॥ [युग्मम् ]| रत्नसिंहासने पूर्वाभिमुखस्तत्र वासवः । आसाञ्चक्रे शैलचूलाशिलायामिव केसरी ॥ ३११ ॥ स्वान्यासनान्यलचक्रुर्महिष्योऽपि बिडौजसः । यथाक्रम कमलिनीदलानीव मरालिकाः ॥३१२ ॥ चतुरशीतिः सहस्राः, सामानिकदिवौकसाम् । अध्यारोहन विमानं तदुदक्सोपानवर्त्मना ॥३१३ ॥ तत्राऽऽसाश्चक्रिरे स्वेषु, खेषु भद्रासनेषु ते । रूपधेयान्तराणीवाऽप्रतिरूपाणि वज्रिणः ॥ ३१४ ॥ अन्येऽपि देवा देव्यश्चाऽपाच्यसोपानवर्त्मना । तद् विमानं समारोहन, निषेदुश्च यथासनम् ॥ ३१५ ॥ हरेः सिंहासनस्थस्य, पुरोऽभूदष्टमङ्गली । पत्नीभिरष्टाभिरिवैकैकमङ्गलकल्पनात् ॥ ३१६॥ तदनु च्छत्र-भृङ्गार-पूर्णकुम्भादयोऽभवन् । ते हि स्वाराज्यचिह्नानि, च्छायावत् सहचारिणः ॥ ३१७ ॥ सहस्रयोजनोत्सेधस्तदग्रेऽभून्महाध्वजः। युतो लघुध्वजशतैः, पल्लवैरिव पादपः ॥ ३१८॥ तदने चाऽभवन् पञ्चाऽनीकाधिपतयो हरेः। आभियोगिकदेवाश्च, स्वाधिकाराप्रमादिनः॥ ३१९ ॥ १ इन्द्रः। २ दक्षिणसोपानमार्गेण । ३ उन्नतः ।
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org