________________
तत् पावयितुमात्मानमस्माभिः सपरिच्छदैः। जिनजन्माभिषेकाय, गन्तव्यं तत्र सम्प्रति ॥ २७७॥ भवद्भिरपि सर्वा , सर्वैः सर्वबलेन च । तत्र गन्तुं मया सार्द्धमागन्तव्यमिह द्रुतम् ॥ २७८ ॥ तस्यैवमाधोषणया, स्तनितेनेव केकिनः । कलयामासुरानन्दममन्दं त्रिदिवौकसः ॥ २७९ ॥ सद्यो विमानान्यारुह्य,पोतानिव दिवौकसः । आक्रामन्तो नभोम्भोधिमाजग्मुः शक्रसन्निधौ ॥ २८॥
अन्तिके स्वामिनो गन्तुं, विमानं क्रियतामिति । आदिशत् पालकं नामाऽऽभियोगिकसुरं हरिः॥२८१ उद्विद्रुममिवाऽम्भोधि, रत्नभित्तिमरीचिभिः । शातकुम्भमयैः कुम्भैरुत्पद्ममिव मानसम् ॥ २८२॥ सर्वाङ्गीणं तिलकितमिव दीर्थैर्ध्वजांशुकैः । विचित्रै रत्नशिखरैरुच्छेखरमिवोच्छ्रितैः ॥ २८३ ॥ रत्नस्तम्भैः श्रीकरेणोरिवाऽऽलानैर्मनोरमम् । शालँभञ्जीभिरन्याभिरप्सरोभिरिवाऽऽश्रितम् ॥ २८४ ॥ आत्ततालं नटमिव, *किङ्कणीजालमण्डितम् । सनक्षत्रं वियदिव, मौक्तिकस्वस्तिकाङ्कितम् ॥ २८५॥ ईहामृगाश्ववृषभैनरकिन्नरकुञ्जरैः । हंसैर्वनलतापमलताभिश्च मनोरमम् ॥ २८६ ।। लक्षयोजनविस्तीर्ण, जम्बूद्वीपमिवाऽपरम् । पञ्चयोजनशत्युच्चं, विमानं विचकार सः॥ २८७॥
[पतिः कुलकम् ] तिसृष्वाशासु तस्याऽऽसंस्तिस्रः सोपानपतयः । महागिरेवतरन्निझरोर्म्य इवाऽऽयताः ॥२८८॥ अग्रे सोपानपतीनामभूवन रत्नतोरणाः । अखण्डाखण्डलधनुःश्रेणिश्रीसोदरा इव ॥ २८९ ॥
१ मेघगर्जितेन । २ मयूराः। ३ यानपात्राणि । ४ सुवर्णमयैः । ५ लक्ष्मीहस्तिन्याः। ६ बन्धनस्तम्भैः। • घुसलिकाभिः। *किङ्किणी पात ॥
Jain Education Inter2
For Private & Personal use only
www.jainelibrary.org