SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Jain Education Int तेन चाssसनकम्पेन, कोपाटोपविसंस्थुलः । कम्पमानाधरदलः, स्फुरज्वाल इवाऽनलः ॥ २४८ ॥ उत्कटभ्रकुटीभीमो, व्योमेवोद्धूमकेतुकम् । आताम्रीभूतवदनो, मदाविष्ट इव द्विपः ॥ २४९ ॥ उत्तरङ्ग इवाऽम्भोधिस्त्रिवलीलाञ्छितालिकः । वज्रमालोकयामास, वज्रभृद् वैरिघातकम् ॥ २५० ॥ [ त्रिभिर्विशेषकम् ] तत्कोपमुपलक्ष्येत्थमुत्थायाऽग्रे कृताञ्जलिः । चमूपतिनैगमेषी, प्रोचे प्राचीनं बर्हिषम् ।। २५१ ॥ • कं प्रति स्वयमावेशो, मय्यप्यादेशकारिणि । सुरासुरमनुष्येषु, नाऽधिको न समश्च ते ।। २५२ ॥ हेतुरासनकम्पस्य, यस्ते सम्प्रत्यजायत । विमृश्याऽऽज्ञापय स्वामिंस्तत्र मां दण्डैकारिणम् ॥ २५३ ॥ एवं च सेनापतिनाऽभिहितो दिविषैत्पतिः । कृत्वाऽवधानमवधिज्ञानं प्रायुङ्ग तत्क्षणात् ॥ २५४ ॥ जैनप्रवचनेनेव, धर्म दीपेन वस्त्विव । द्वितीयतीर्थकृज्जन्माऽज्ञासीदवधिना हरिः ।। २५५ ॥ सदध्यौ चेत्यहो ! जम्बूद्वीपे वर्षे च भारते । विनीतायां महापुर्यां जितशत्रोर्महीपतेः ।। २५६ ।। जायाया विजयादेव्याः, सम्प्रत्ययमजायत । एतस्यामवसर्पिण्यां, द्वैतीयीको जिनेश्वरः ।। २५७|| [ युग्मम् ] तेन चाssसनकम्पोऽयं, धिग् धिग् दुश्चिन्तितं मया । ऐश्वर्येणोन्मदिष्णोर्मे, मिथ्यादुष्कृतमस्तु तत् ॥ २५८ ॥ चेतसा चिन्तयित्वैवं, रत्नसिंहासनं निजम् । पादपीठं पादुके च, त्यक्त्वोत्तस्थौ पुरन्दरः ।। २५९ ।। ससम्भ्रमः शर्तमखोऽभिमुखं तीर्थकृदिशः । ददौ पदानि कतिचित्, प्रस्थानमिव साधयन् ॥ २६० ॥ न्यस्योर्व्या दक्षिणं जानुमन्यं न्यश्य च किञ्चन । क्ष्मां स्पृशन् पाणिशीर्षेण, ननाम खामिने हरिः || २६१ १ ललाटम् । २ इन्द्रम् । ३ दण्डकारकम् । ४ इन्द्रः । ५ मत्तस्य । ६ इन्द्रः । For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy