________________
रत्नाकरो रत्नशैलो, रत्नगर्भा मुधा ह्यमी । त्वमेका रत्नभूः पुत्ररत्नं यत् सूतवत्यदः ॥ २२०॥ वयं हि रुचकद्वीपमध्यस्था दिकुमारिकाः । अर्हतो जन्मकृत्यानि, कर्तुमत्र समागताः॥२२१ ।। भवत्या तन्न भेतव्यमित्युक्त्वा परमेशितुः । चतुरङ्गुलवर्ज ता, नाभिनालमकल्पयन् ॥ २२२ ॥ खनित्वा विदरं तत्र, नालं निधिमिव न्यधुः। विदरं पूरयामास , रत्नैर्वजैश्च तं ततः ॥ २२३ ॥ बबन्धुस्तत्र पीठं ताः, सद्यः प्रोद्भूतदूर्वया । अप्युद्यानान्युद्भवन्ति, देवतानां प्रभावतः ॥ २२४ ॥ सूतिकावेश्मनस्तस्य, ककुप्सु तिसृषु क्षणात् । विकुर्वन्ति स कदलीगृहाणि श्रीगृहाणि ताः॥२२५ ॥ प्रत्येकमेकं तन्मध्ये, चतुःशालं विचक्रिरे । मध्ये च तेषामेकैकं, रत्नसिंहासनं महत् ॥ २२६ ॥ ततश्च जगृहुस्तीर्थकरं करतलेन ताः । स्वामिनी च भुजे निन्युश्चाऽपाच्यकदलीगृहे ॥ २२७॥ तत्र चाऽन्तश्चतुःशालं, रत्नसिंहासनोत्तमे । ताः सुखं स्वामिनं स्वामिमातरं च न्यवेशयन् ॥ २२८ ॥ खयं संवाहिकीभृय, पाणिन्यासैर्यथासुखैः । शतपाकादिभिस्तैलैरभ्यङ्गं च तयोर्व्यधुः ॥२२९॥ गन्धद्रव्यैः सुरभिभिः, सूक्ष्मपिष्टैः क्षणेन ताः । उद्वर्त्तनं विदधिरे, रत्नदर्पणवत् तयोः ॥ २३० ॥ जिनेन्द्रं करतलेन, जिनेन्द्रजननी भुजे । गृहीत्वा निन्यिरे ताच, पौरस्त्ये कदलीगृहे ॥ २३१॥ तत्र मध्ये चतुःशालं, रत्नसिंहासनोत्तमे । आसयामासुरथ ता, जिनेन्द्र-जिनमातरौ ।। २३२ ॥ ताश्च गन्धोदकैः पुष्पोदकैः शुद्धोदकैरपि । द्वावपि स्नपयामासुस्तदिवाऽऽजन्मशिक्षिताः॥२३३॥
+विवरं ल, पात ॥ १ गतम् । विवरं पात ॥ २ दिक्षु। ३ दक्षिणकदलीगृहे । ४ दासीभूय ।५ पूर्वदिक्सम्बन्धिनि ।। जम्मत भारम्य शिक्षिता इव ।
CRACKAGRA
C
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org.