________________
6456
त्रिषष्टिशलाकापुरुषचरिते ॥१९४॥
द्वितीय पर्व द्वितीयः सर्गः अजितनाथचरितम् ।
जिनेन्द्र-जिनजनन्योर्दक्षिणेन कैलखनाः। ता मङ्गलानि गायन्त्यस्तस्थुर्भृङ्गारपाणयः॥ २०५॥
तथा प्रत्यग्रुचकादिवास्तव्या दिक्कुमारिकाः। पूर्ववज्ज्ञापयित्वा खं, तावन्मात्रपरिच्छदाः ॥ २०६॥ इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीता च नामतः॥२०७॥ कृत्वा प्रदक्षिणापूर्व, नेतिं जिन-जिनाम्बयोः । गायन्त्यः पश्चिमेनाऽस्थुश्वारुव्यजनपाणयः ॥२०८ ॥ ॥
तथोदग्रुचकशैलवास्तव्या दिकुमारिकाः। निवेद्य प्राग्वदात्मानं, तथैव सपरिच्छदाः॥२०९॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी। हासा सर्वप्रभा चैव, ही श्रीरिति च नामतः॥२१० नत्वा प्रदक्षिणापूर्व, पादान् जिन-जिनाम्बयोः । गायन्त्य उत्तरेणाऽस्थुश्वारुचामरपाणयः ॥ २११॥ विदिग्रुचकवास्तव्याश्चतस्रो दिक्कुमारिकाः। चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥२१२॥ एत्य प्रदक्षिणापूर्व, नमस्कारं विधाय च । जिनस्य जिनमातुश्च, स्वमायातं न्यवेदयन् ॥ २१३ ॥ खामिनः स्वामिमातुश्च, गायन्त्यो विपुलान् गुणान् । दीपिकापाणयस्तस्थुरैशान्यादिविदिक्षु ताः॥२१४॥
रुचकद्वीपमध्यस्थाश्चतस्रो दिक्कुमारिकाः। रूपा रूपांशिका चैव, सुरूपा रूपकावती॥२१५॥ प्रत्येक पूर्ववत् सर्वपरिवारविराजिताः । महाविमानान्यारुह्याऽर्हजन्मगृहमाययुः ॥ २१६ ॥ तत् त्रिः प्रदक्षिणीचक्रुर्विमानेष्वेव ताः स्थिताः । अस्थापयन् विमानानि, देशे समुचिते ततः ॥२१७ ॥ ततश्चरणचारिण्यो, जिनेन्द्र-जिनमातरौ । भक्त्या प्रदक्षिणीकृत्य, नत्वा चैवं बभाषिरे ॥ २१८ ॥ जय जीव चिरं नन्द, विश्वानन्दननन्दने!। सुमुहूर्त जगन्मातरद्य त्वद्दशेनेन नः ॥ २१९॥ 1 मधुरस्वराः । २ नमस्कारम् ।
दिकुमारिकाकृतो जिनजन्मोत्सवः।
॥१९४॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org.