SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ महत्तराभिः सामानिक्यङ्गरक्षीभिरेव च । अनीकानीकपतिभिः, पूर्ववत् परिवारिताः ॥१९॥ एयुस्तत् सूतिकावेश्म, स्वामिजन्मपवित्रितम् । त्रिश्च प्रदक्षिणीचक्रुर्जिनेन्द्र-जिनमातरौ ॥ १९१॥ पूर्ववज्ज्ञापयित्वा खं, विजयायै प्रणम्य च । अभिष्टुत्य च तत्रोचैर्विचक्रुर्मेघदुर्दिनम् ॥ १९२ ॥ ततश्च भगवजन्मभवनाद् योजनावधि । नाऽतिस्तोकां नातिबह्रीं, वृष्टिं गन्धोदकैर्व्यधुः ॥ १९३॥ तपसेवाऽहंसां राकाज्योत्स्नया तमसामिव । तया च रजसां शान्तिाग् वृष्टया समजायत ॥ १९४ ॥ ततो विचित्रमुन्निद्रं, पुष्पप्रकरमाशु ताः। तत्र रङ्गावनौ रङ्गाचार्या इव विचक्रिरे ॥ १९५॥ घनसारागुरुपायधूपधूमेन चोच्चकैः । तां भुवं वासयामासुर्वासागारमिव श्रियः ॥ १९६॥ तीर्थकृत्तीर्थकुन्मात्रोरनत्यासन्नदूरतः । अथाऽमलान् स्वामिगुणांस्ता गायन्त्योऽवतस्थिरे ॥ १९७ ॥ ___ अथ पूर्वरुचकाद्रिवास्तव्या दिक्कुमारिकाः । सहिताः सर्वया ऋद्ध्या, सकलेन बलेन च ॥ १९८ ॥ तत्र नन्दोत्तरानन्दे, आनन्दानन्दवर्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता॥१९९5 पूर्ववत् सपरीवारास्तदेयुः सूतिकागृहम् । त्रिश्च प्रदक्षिणीचकुस्ताः खामि-खामिमातरौ ॥२०॥ खं ज्ञापयित्वा स्वामिन्यै, नत्वा स्तुत्वा च पूर्ववत् । तत्पूर्वतोऽस्थुर्गायन्त्यो, रत्नदर्पणपाणयः ॥ २०१॥ अपाच्यरुचकशैलवास्तव्याश्चारुभूषणाः । स्रग्विण्यो दिव्यवसना, इत्यष्टौ दिक्कुमारिकाः॥२०२॥ समहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥२०३॥ प्राग्वत् परिच्छदभृतस्तसिन्नभ्येत्य वेश्मनि । नत्वा प्रदक्षिणापूर्व, स्वामिन्यै स्खमजिज्ञपन् ॥ २०४॥ १ पापानाम् । २ विकसितम् । ३ सूत्रधाराः। ४ दाक्षिणात्यः । त्रिषष्टि. ३४ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy