________________
आदेशेन समं तासां, ते देवा आभियोगिकाः । विकृत्य दर्शयामासुर्विमानान्युरुशक्तयः॥१६१ ॥
[सप्तभिः कुलकम् ] अथाऽधोलोकवास्तव्यास्तास्वष्टौ दिकुमारिकाः । देवदृष्यनिवसनाः, पुष्पालङ्कृतकुन्तलाः ॥ १६२॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी। तोयधारा विचित्राच, पुष्पमालाऽप्यनिन्दिता प्रत्येकं च सामानिकीचत्वारिंशच्छतावृताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥ १६४ ॥ प्रत्येकं च महानीकैः, सप्तभिः परिवारिताः । अनीकाधिपतिभिश्च, प्रत्येकमपि सप्तभिः ॥ १६५ ॥ आत्मरक्षीसहस्रैश्चकैका पोडशभिर्युताः । अन्यैश्च व्यन्तरैर्देवैर्देवीभिश्च महर्द्धिभिः॥ १६६॥ विमानानि समारुह्य, गीतनृत्तमनोहरम् । प्रति पूर्वोत्तरदिशं, सोत्कण्ठमुपचक्रमुः॥१६७॥ अथ कृत्वा समुद्धातं, वैक्रियं ताः क्षणादपि । योजनान्यर्पसङ्ख्यानि, यावद् दण्डं विचक्रिरे ॥ १६८॥ रत्न-वैडूर्य-वज्राणां, लोहिताक्षाङ्कयोरपि । अञ्जनाञ्जनपुलक-पुलकानां तथैव च ॥ १६९ ॥ ज्योतीरस-सौगन्धिक-रिष्टानां स्फटिकाश्मनाम् । जातरूपहंसगर्भरत्नानामपि सर्वतः ॥ १७०॥ तथा मसारगल्लानां, मणीनां स्थूलपुद्गलान् । परितः शातयामासुर्जगृहुश्चाऽणुपुद्गलान् ॥ १७१॥ ततश्च चक्रिरे खं स्वं, रूपमुत्तरक्रियम् । देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥ १७२ ॥ उत्कृष्टया त्वरितया, चलया चण्डयाऽपि च । सिंहोद्धताभ्यां पतनाच्छेकाभ्यामथ दिव्यया ॥ १७३ ॥ देवगत्या तथा सर्वऋद्ध्या सर्वबलेन च । ययुः पुर्यामयोध्यायां, जितशत्रुनृपौकसि ॥ १७४ ॥ १ऐशानीम् । २ असङ्ख्यातानि ।
Jain Education into
For Private & Personal use only
www.jainelibrary.org