SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Jain Education चारुचूडामणिरुचिप्रसरव्यपदेशतः । रचितोदात्तकौसुम्भवस्त्रनीरङ्गिका इव ॥ १३२ ॥ शोभिताः स्वप्रभापूर्णान्तरैर्मौक्तिककुण्डलैः । सुधाकुण्डैरिव झलज्झलायितसुधोर्मिभिः ॥ १३३ ॥ ग्रैवेयकैः शोभमाना, विचित्रमणिनिर्मितैः । कुण्डलीकृतसुत्रामंकोदण्डश्रीविडम्बिभिः ॥ १३४ ॥ अधिस्तनतटामुक्तैर्मुक्ताहारैर्मनोहराः । रत्नशैलतटीचञ्चन्निर्झर श्रीमलिम्लुचैः ।। १३५ ।। माणिक्यचूडावलयैर्विराजद्भुजवल्लयः । न्यासीकृतैरनङ्गेन, निपङ्गैरिव चारुभिः ॥ १३६ ॥ अनर्घ्यरत्नरचितां दधाना रसनालताम् । जगजिगीषोः पश्चेषोः कृते ज्यामित्र सञ्जिताम् ॥ १३७ ॥ अङ्गांशुनिर्जितैः सर्वज्योतिष्काणामिवाऽंशुभिः । लग्नैश्चरणपद्मेषु, शोभिता रत्ननूपुरैः ॥ १३८ ॥ काश्विनीलाङ्गरुचयः, प्रियङ्गुलतिका इव । काचित् स्वभाभिस्तन्वन्त्यस्तालीवनमिवाम्बरे ।। १३९ ॥ विकिरन्त्यो रुचीः काश्चिद्, बालारुणरुचीरिव । स्नपयन्त्यो रुचा काश्चित् सितया ज्योत्स्रयेव खम् ॥१४०॥ काश्चिद् ददत्यः कनकसूत्राणीव दिशां रुचा । काचिच्च कान्त्या वैरत्नपाञ्चालिका इव ॥ १४१ ॥ सर्वाः कुचाभ्यां वृत्ताभ्यां संचक्रा इव निम्नगाः । सर्वाः सलीलगामिन्यो, राजहंसाङ्गना इव ॥ १४२ ॥ सपल्लवा इव लताः सर्वाः कोमलपाणयः । उन्निद्रपद्माः पद्मिन्य इव सर्वाः सुलोचनाः ॥ १४३ ॥ सर्वा लावण्यपूरेण, सजला इव दीर्घिकाः । सर्वाः सौन्दर्यशालिन्यो, मन्मथस्येव देवताः || १४४ ॥ सञ्जाताssसनकम्पेन, किमेतदिति सम्भ्रमात् । षट्पञ्चाशदपि हि ताः सद्यः प्रायुञ्जताऽवधिम् ॥ १४५ ॥ [ पञ्चदशभिः कुलकम् ] १ इन्द्रधनुः । २ करकङ्कणैः । ३ तूणीरैः । ४ कटिमेखलाम् । ५ कामदेवस्य । ६ चक्रवाकसहिताः । For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy