SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितनाथचरितम् । ॥१९॥ निसर्गेणापि राजन्त्यौ, ते गर्भणाऽतिरेजतुः । सरस्थाविव सम्पूर्ण, मध्ये स्वर्णाम्बुजन्मना ॥११७॥ वर्णप्रभागौरमपि, तयोर्वदनपङ्कजम् । पाण्डिमानं दधौ दन्तिदन्तच्छेदच्छविस्पृशम् ॥ ११८ ॥ तयोः कर्णान्तविश्रान्ते, स्वभावादपि लोचने । अधिकं सविकासे चाऽजायेतां शरदब्जवत् ॥ ११९ ॥ तयोर्लवणिमा तागवर्धिष्टाधिकाधिकम् । सद्यो मार्जितयोः कान्तिQम्योरिव शलाकयोः॥१२०॥ अग्रेऽपि मन्थरं यान्त्यौ, विशेषादतिमन्थरम् । देव्यौ सश्चेरतू राजहंस्याविव मदालसे॥ १२१ ॥ अतिगूढं ववृधाते, तयोगीं सुखप्रदौ । नलिनीनालवन्नद्योः, शुक्त्योमौक्तिकरत्नवत् ॥ १२२ ॥ ततो नवसु मासेषु, दिनेष्वर्धाष्टमेषु च । गतेषु माघमासस्य, शुक्लाष्टम्यां शुभेक्षणे ॥ १२३ ॥ ग्रहेषञ्चस्थितेष्वृक्षे, रोहिण्यां गजलाञ्छनम् । असूत विजया सूनुं, पुण्यं सूनृतवागिव ।। १२४ ॥ प्रसूतिदुःखं नो देव्या, न सूनोरप्यजायत । स एष तीर्थनाथानां, प्रभावो हि स्वभावजः ॥ १२५॥ जज्ञे तदानीमुयोतः, क्षणं त्रिभुवनेऽपि हि । अकाण्डोद्भूतनिर्मेघविद्युद्योतसोदरः॥ १२६ ॥ नारकाणामपि सुखं, तदा क्षणमजायत । अभ्रच्छायासुखभिव, पान्थानां शरदागमे ॥ १२७ ॥ शरद्यपामिव तदा, प्रसादः ककुभामभूत् । अत्युल्लासश्च लोकानां, कमलानामिवोपसि ॥ १२८ ॥ प्रदक्षिणोऽनुकूलच, भूमिसपी च मारुतः। मन्दं मन्दं ववौ सद्यो, भूतलादुद्भवन्निव ॥ १२९ ॥ सञ्जज्ञिरे समन्ताच, शकुनाः शुभसूचकाः । सर्व हि शुभमेव स्थाजन्मतोऽपि शुभात्मनाम् ॥ १३०।। तदा च दिक्कुमारीणामासनानि चकम्पिरे । उन्मनांसीवोत्पतितुं, जिनान्तिकयियासया ॥ १३१॥ १ लावण्यम् । * तु ल. पा ॥ २ नक्षत्रे । ३ उत्सुकानीव । ४ जिनसमीपं जिगमिषया। अजितप्रभोजन्म। RANGACASEARCRAC ॥१९॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy