________________
न द्वौ युगपदर्हन्तौ, युगपञ्चक्रिणौ न च । एकस्यास्तीर्थकृत सूनुरन्यस्याश्चक्रभृत् ततः॥१०२॥ ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते । जितशत्रुसुते तीर्थङ्कर इत्यहेदागमात् ॥ १०३॥ ज्ञातव्यो विजयादेव्याः, सूनुस्तीर्थकरः खलु । षट्खण्डभरताधीशो, वैजयन्त्यास्तु नन्दनः॥१०४॥
परितुष्टस्ततस्तेषां, नृपतिः पारितोषिकम् । प्रददौ ग्रामखेटादि, वस्त्रालङ्करणादि च ॥ १०५॥ आजन्मदौस्थ्यमगमत् , तेषां तज्जन्मशंसनात् । महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥ १०६ ॥ वस्त्रालङ्करणैः कल्पद्रुमा इव विराजिनः । ते राजानुज्ञया जग्मुस्ततः खं खं निकेतनम् ॥ १०७॥ विजया-वैजयन्त्यौ च, वासागारं निजं निजम् । जग्मतुर्मुदिते गङ्गा-सिन्धू इव पयोनिधिम् ॥१०८॥
ततः पुरन्दरादेशान्नित्यं देवासुरस्त्रियः। सेवितुं विजयादेवीमेवमारेभिरे भृशम् ॥ १०९॥ वामिनीसदनात् पांमुतृणकाष्ठादि सर्वतः । सदाऽपनिन्यिरे वायुकुमाररमणीजनाः ॥ ११० ॥ गन्धोदकेन सिषिचुस्तद्वेश्माङ्गणभूमिकाम् । भुजिष्याजनवन्मेषकुमारकमृगीदृशः॥१११॥ ववृषुः पञ्चवर्णानि, पुष्पाणि ऋतुदेवताः । प्रभोर्गर्भस्थितस्यापि, दातुमर्घमिवोद्यताः ॥ ११२ ॥ प्रकाशमुपनिन्युश्च, ज्योतिष्काणां पुरन्ध्रयः । यथासुखं यथाकालं, स्वामिन्या भाववेदिकाः॥११३ ॥ वनदेव्यो दास्य इव, चक्रिरे तोरणादिकम् । ता मागधस्त्रिय इव, तुष्टुवुश्च सुरस्त्रियः ॥११४ ॥ देवताभिरिति स्वाधिदेवतेव ततोऽपि वा । अधिकेव प्रतिदिनं, विजयादेव्यसेव्यत ।। ११५ ॥
कालिकेवाशुमझिम्ब, निधानमिव मेदिनी । विजया वैजयन्ती च, देवी गर्भमधारयत् ॥११६॥ १ आजन्मदारियम् । २ दासीजनवत् । ३ मेघमाला।
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org