SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व सप्तमः सर्ग: श्रीसनत्कुमारचक्रि चरितम् त्रिषष्टि पिङ्गकेशाः पिङ्गनेत्राः संदवा इव पर्वताः। लम्बजिह्वाः कोटरान्तःस्थिताहय इव दुमाः॥२०॥ शलाका तीक्ष्णवका महादंष्ट्रा दधानाः कत्रिका इव । अधावन्ताध्यार्यपुत्रमधिमध्विव मक्षिकाः ॥२०१॥ पुरुषचरिते ॥त्रिभिर्विशेषकम् ॥ महाकाव्ये भ्राम्यतो विकृताकारान् रङ्गादाविव नर्तकान् । आर्यपुत्रोऽपि तान् पश्यन् न विभाय मनागपि ॥२०२॥ ॥४४२॥ पिशाचेभ्योऽप्यचकितमार्यपुत्रं तरखिनम् । अकालकालपाशाभैर्नागपाशैर्बबन्ध सः॥२०३॥ आर्यपुत्रस्तु तान् सर्वास्त्रोटयामास लीलया । हस्तोत्क्षेपेण हस्तीवाविहस्तो वल्लिमण्डपम् ॥ २०४॥ अमुं यक्षो विलक्षोऽथ करघातैरताडयत् । महागिरिप्रस्थमिव लाङ्गलाच्छोटनहरिः॥२०५॥ आजघानार्यपुत्रस्तं वज्रसारेण मुष्टिना । महामात्र इव क्रुद्धो लोहगोलेन दन्तिनम् ॥ २०६॥ अयोवलयितेनाथ मुद्रेण गरीयसा । आर्यपुत्रं न्यहन् यक्षस्तडितेवाद्रिमम्बुदः ॥२०७॥ चन्दनद्रुममुन्मूल्य तेन वर्धिष्णुराहतः । यक्षः पपात भुव्यर्द्धशोषं शुष्क इव द्रुमः॥२०८॥ यक्षोऽपि शैलमुरिक्षप्य लीलया गण्डशैलवत् । आर्यपुत्रस्योपरिष्टाच्चिक्षेपामर्षणः क्षणात् ॥ २०९॥ तेन शैलप्रहारेण जज्ञे निश्चेतनः क्षणम् । सायं नदीहूद इव मीलितेक्षणपङ्कजः ॥ २१०॥ लब्धसंज्ञो विध्यादि महावायुरिवाम्बुदम् । आर्यपुत्रः प्रववृते बाहुभ्यां योद्धमुच्चकैः ॥२११॥ १ दवानलसहिताः । * "न्ताधिकुमारमधि संवृ. ॥ २ बलिनम्। ३ अमन्दः। 1 °ण्डलम् ॥ संवृ. का.॥ Cltतंच य° संबृ. ॥ ४ विषण्णः। हरघातयत मु.॥ 'त् । उपरिष्टात् कुमारस्य चिक्षे संबृ.॥ ॥४४२॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy