SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ तदा चामुं पुण्यवशाद् यक्षस्तद्वनदैवतम् । जलैः सिषेच सर्वाङ्गं शिशिरैरमृतोपमैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञोऽसौ तदत्तं तत्पयः पपौ । कस्त्वं कुतो वा वारीदमित्यपृच्छच्च तं शनैः ॥ १८७॥ यक्षोऽहमिह वास्तव्यो मानसात् त्वत्कृते पयः । इदं मया समानीतमित्याचख्यौ स यक्षराट् ॥ १८८॥ आर्यपुत्रोऽवदद् भूयः संतापोऽङ्गे महानयम् । न विना मानससरोमजनादपयास्यति ॥ १८९ ।। तवेच्छां पूरयाम्येष इत्युक्त्वा यक्षपुङ्गवः। कदलीसंपुटे क्षिप्वाऽमुं मानससरोजयत् ॥ १९॥ तत्र च स्वपयामासार्यपुत्रं स यथाविधि । गजराज गंजायुक्त इव शीतामलै लैः ॥ १९१ ॥ सर्वाङ्गीणं सुखस्पर्शेरपनिन्ये श्रमो जलैः । आर्यपुत्रस्य निपुणैः संवाहकजनैरिव ॥ १९२ ॥ तत्रासिताक्षो यक्षः प्राग्जन्मारिः सुहृदस्तव । हननाय समागच्छत् कृतान्त इव नूतनः ॥ १९३॥ अरे रे तिष्ठ सिंहेन क्षुधितेनेव कुञ्जरः । चिरादसि मया दृष्टः कियद्रं गमिष्यसि ॥१९४ ॥ इत्यूर्जितं स तर्जित्वा समुन्मूल्यैकमनीम् । आर्यपुत्राय सोनार्यः प्राक्षिपद् यष्टिलीलया ॥ १९५॥ समापतन्तं हस्तेन निहत्यापातयद् द्रुमम् । 'तं ते सखा प्रतिकारभस्त्रामिव मतङ्गजः ॥ १९६॥ ततो बहलधूलीमिरन्धकारमयं जगत् । अकालोत्पन्नकल्पान्तमिव यक्षश्वकार सः॥१९७॥ सं विचक्रे पिशाचाँश्च धूमधूम्रकलेंवरान् । सोदरानन्धकारस्य दारुणाकारधारिणः ॥ १९८॥ ज्वालाजालकरालास्यास्ते चित्या इव जङ्गमाः । अट्टहासं विमुश्चन्तः पतत्पविरवोपमम् ॥ १९९ ॥ १ तन्नानः सरोवरात् । * त्वा तं मा संवृ. का. . + मास कुमारं स य संबृ. ॥ २ हस्तिपकः। ३ तिरस्कृत्य । ४ वृक्षम्। तं कुमारप्र संवृ.॥ ५ गजग्रहणोपायभूतां भवाम् कोहधमनीम्, 'भट्ठी" इति भाषायाम् । अग्नयः । Jain Education in Urbel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy